SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ [श्रु०१। अ०३। उ०२। सू०११८] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् कुरुध्वमिति । किञ्च एत्थोवरए इत्यादि । अत्र-अस्मिन् संयमे भगवद्वचसि वा, उप = सामीप्येन रतः= व्यवस्थितः, मेधावी-तत्त्वदर्शी, सर्वम् अशेषं, पापं कर्म संसारार्णवपरिभ्रमणेहेतुं झोषयति शोषयति, क्षयं नयतीति यावत् ॥११७।। उक्तोऽप्रमादः । तत्प्रत्यनीकस्तु प्रमादः । तेन च कषायादिप्रमादेन प्रमत्तः किंगुणो भवति ? इत्याह/[सू०] अणेगचित्ते खलु अयं पुरिसे, से केयणं अरिहइ पूरइत्तए । अणेगचित्ते इत्यादि । अनेकानि चित्तानि कृषि-वाणिज्या-ऽवलगनादीनि यस्य असौ = अनेकचित्तः, खलः अवधारणे, संसारसुखाभिलाषी अनेकचित्त एव भवति । अयं पुरुषः इति प्रत्यक्षगोचरीभूतः संसारी अपदिश्यते । अत्र च प्रागुपन्यस्तदधिघटिकया केपिलदरिद्रेण च दृष्टान्तो वाच्य इति । यश्च अनेकचित्तो भवति स किं कुर्यात् ? इत्याह से केयणमित्यादि । द्रव्यकेतनं- चालनी परिपूर्णकः समुद्रो वेति; भावकेतनं लोभेच्छा । तदसौ अनेकचित्तः केनापि अभृतपूर्वं पूरयितुमर्हति, अर्थितया शक्या-ऽशक्यविचाराक्षमः अशक्यानुष्ठानेऽपि प्रवर्तत इत्युक्तं भवति । स च लोभेच्छापूरणव्याकुलितमतिः किं कुर्यात् ? इत्याह से अण्णवहाए अण्णपरियावाए अण्णपरिग्गहाए जणवयवहाए जणवयपरिवायाए जणवयपरिग्गहाए ॥११८॥ से अन्नवहाए इत्यादि । स लोभपूरणप्रवृत्तोऽन्येषां प्राणिनां वधाय भवति; तथा अन्येषां शारीर-मानसपरितापनाय; तथा अन्येषां द्विपदचतुष्पदादीनां परिग्रहाय; जनपदे भवा:=जानपदाः, कालप्रष्ठादयो राजादयो वा मगधादिजनपदा वा, तद्वधाय; तथा जनपदानां = लोकानां परिवादाय = ‘दस्युरयं, पिशुनो वा' इत्येवं मर्मोद्घट्टनाय; तथा जनपदानां मगधादीनां परिग्रहाय प्रभवतीति सर्वत्र अध्याहारः ॥११८|| टि० १. कुरु त्वमिति च ।। २. ०णहेतुः क घ ङ । ०णहेतु च ॥ ३. झोषयति इति खप्रतौ नास्ति ॥ ४. संसायुपदिश्यते घ ङ ।। ५. कपिलेन च ख ॥ ६. तथा तेषां क ॥ ७. वा तद्वधाय गङपुस्तके विना ॥ ८. भवतीति ङ॥ ९. सर्वदाध्याहारः ख ॥ वि०टि० ० "चालिनीपरिपूर्णक इति सुघरीगृहम्' जै०वि०प० ॥ क "कालप्रष्टादय इति म्लेच्छादयः" जै०वि०प० । "तृतीयाध्ययने उद्दे० २-कालप्रष्टादयः म्लेच्छादयः" स०वि०प० ॥ २९८
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy