SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ बन्धस्थाननिरूपणम् [श्रु०१। अ०३। उ०२। सू०११७] एकेन्द्रियाऽपर्याप्तकप्रायोग्यं बनतो मिथ्यादृष्टेः भवति । इयमेव पराघात-उच्छ्वाससहिता पञ्चविंशतिः, नवरं अपर्याप्तकस्थाने पर्याप्तक एव वाच्यः । इयमेव च आतपउद्द्योतान्यतरसमन्विता षड्विंशतिः, नवरं बादर-प्रत्येके एव वाच्ये । तथा देवगतिप्रायोग्यं बध्नतोऽष्टाविंशतिः; तेथा हि-देवगतिः पञ्चेन्द्रियजातिः वैक्रिय-तैजस-कार्मणानि शरीराणि समचतुरस्रं अङ्गोपाङ्गं वर्णादिचतुष्कं आनुपूर्वी अगुरुलघु उपघातं पराघातं उच्चासः प्रशस्तविहायोगतिः त्रसं बादरं पर्याप्तकं प्रत्येकं स्थिरा-ऽस्थिरयोः अन्यतरत् शुभाऽशुभयोरन्यतरत् सुभगं सुस्वरं आदेयं यश:कीर्ति-अयश:कीोरन्यतरत् निर्माणमिति । एषैव तीर्थकरनामसहिता एकोनत्रिंशत् । साम्प्रतं त्रिंशत्- देवगतिः पञ्चेन्द्रियजातिः वैक्रियाऽऽहारकशरीराङ्गोपाङ्गचतुष्टयं तैजस-कार्मणे संस्थानमाद्यं वर्णादिचतुष्कं आनुपूर्वी अगुरुलघु उपघातं पराघातं उच्छासः प्रशस्तविहायोगतिः त्रसं बादरं पर्याप्तकं प्रत्येकं स्थिरं शुभं सुभगं सुस्वरं आदेयं यश:कीर्तिः निर्माणमिति च बध्नत एकं बन्धस्थानम् । एषैव त्रिंशत् तीर्थकरनामसहिता एकत्रिंशत् । एतेषां च बन्धस्थानानां एकेन्द्रिय-द्वीन्द्रिय-त्रीन्द्रियनरकगत्यादिभेदेन बहुविधता कर्मग्रन्थाद् अवसेया । अपूर्वकरणादिगुणस्थानकत्रये देवगतिप्रायोग्यबन्धोपरमाद् यश:कीर्तिमेव बध्नत एकविधं बन्धस्थानमिति । तत ऊर्ध्वं नाम्नो बन्धाभाव इति । गोत्रस्य सामान्येन एकं बन्धस्थानम्- उच्च-नीचयोरन्यतरत्, यौगपद्येन उभयोः बन्धाभावो, विरोधादिति । तदेवं बन्धद्वारेण लेशतो बहुत्वं आवेदितं कर्मणाम्, तच्च बहु कर्म प्रकृतं-बद्धं प्रकटं वा, तत्कार्यदर्शनात्; खलुशब्द: वाक्यालङ्कारे अवधारणे वा, बढेव तत् कर्म ॥११६॥" यदि नामैवं ततस्तदपनयनार्थं किं कर्तव्यम् ? इत्याह[सू०] सच्चंसि धितिं कुव्वह । एत्थोवरए मेहावी सव्वं पावं कम्मं झोसेति ॥११७॥ सच्चे इत्यादि । सद्भयो हितः सत्यः संयमः, तत्र धृतिं कुरुध्वम् । सत्यो वा मौनीन्द्रागमो, यथावस्थितवस्तुस्वरूपाविर्भावनात्; तत्र भगवदाज्ञायां धृतिं कुमार्गपरित्यागेन टि० १. पर्याप्तकमेव वाच्यम् । इय० ख घ । पर्याप्तकमेव वाच्यम् । तथा इय० ङ ॥ २. ततो च ॥ ३. तद्यथा-देव० ख ॥ ४. स्थिरं शुभं सुभगं सुस्वरं च ।। वि०टि० ०"वाच्ये [इति कर्मणीति शेषः" जै०वि०प० ॥ २९७
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy