SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् [श्रु०१। अ०३ । उ०२ । सू०११६ ] सयोगिकेवलिनां सप्तविधबन्धोपरमे सातमेकं बेध्नतामेकविधं बन्धस्थानम्, तच्च जघन्येन सामयिकम्, उत्कृष्टतो देशोनपूर्वकोटिकालीयम् । इदानीं उत्तरप्रकृतिबन्धस्थानानि अभिधीयन्ते तत्र ज्ञानावरणा-ऽन्तराययोः पञ्चभेदयोरपि एकमेव ध्रुवबन्धित्वाद् बन्धस्थानम् । दर्शनावरणीयस्य त्रीणि बन्धस्थानानि - निद्रापञ्चक- दर्शनचतुष्टयसमन्वयाद् ध्रुवबन्धित्वाद् नवविधम् ; ततः स्त्यानधित्रिकस्य अनन्तानुबन्धिभिः सह धोर षड्विधम्; अपूर्वकरणसङ्ख्येयभागे निद्रा - प्रचलयोः बन्धोपरमे चतुर्विधं बन्धस्थानम् । वेदनीयस्य एकमेव बन्धस्थानं सातमसातं वा बध्नतः, उभयोरपि यौगपद्येन विरोधितया बन्धाभावात् । S मोहनीयस्य बन्धस्थानानि दश, तद्यथा - द्वाविंशतिः, मिथ्यात्वं षोडश कषाया अन्यतरो वेदो हास्यरतियुग्मा - ऽरतिशोकयुग्मयोः अन्यतरद् भयं जुगुप्सा च इति; मिथ्यात्वबन्धोपरमे सास्वादनस्य सैव एकविंशतिः; सैव सम्यग्मिथ्यादृष्टेः अविरतसम्यग्दृष्टेः वा अनन्तानुबन्ध्यभावे सप्तदशविधं बन्धस्थानम्; तदेव देशविरतस्य अप्रत्याख्यानबन्धाभावे त्रयोदशविधम्; तदेव प्रमत्ता - ऽप्रमत्ता - पूर्वकरणानां यतीनां प्रत्याख्यानावरणबन्धाभावाद् नवविधम्; एतदेव हास्यादियुग्मस्य भय- जुगुप्सयोश्च अपूर्वकरणचरमसमये बन्धोपरमात् पञ्चविधम्; ततोऽनिवृत्तिकैरणसङ्ख्येयभागावसाने पुंवेदबन्धोपरमात् चतुर्विधम्; ततोऽपि तस्मिन्नेव सङ्ख्येयभागे क्षयमुपगच्छति सति क्रोधमान-मायासञ्ज्वलनानां क्रमेण बन्धोपरमात् त्रिविधं द्विविधं एकविधं चेति; तस्यापि अनिवृत्तिकरणचरमसमये बन्धोपरमात् मोहनीयस्य अबन्धकः । आयुषः सामान्येन एकविधं बन्धस्थानं चतुर्णां अन्यतरत्, द्वयादेः यौगपद्येन बन्धाभावो, विरोधादिति । नाम्नः अष्टौ बन्धस्थानानि, तद्यथा— त्रयोविंशतिः, तिर्यग्गतिप्रायोग्यं बध्नतः तिर्यग्गतिः एकेन्द्रियजातिः औदारिक- तैजस - कार्मणानि हुण्डसंस्थानं वर्ण- गन्ध-रस-स्पर्शाः तिर्यग्गतिप्रायोग्या आनुपूर्वी अगुरुलघु उपघातं स्थावरं बादरर- सूक्ष्मयोरन्यतरद् अपर्याप्तकः प्रत्येक-साधारणयोरन्यतरद् अस्थिरं अशुभं दुर्भगं अनादेयं अयशः कीर्तिः निर्माणमिति, इयं टि० १. बध्नतामेकं बन्ध० क ॥। २. बन्धोपरमात् षड्विधम् ग ॥ ३. करणबन्धभागा० ख ॥ ४. तस्मिन्नेवासङ्ख्येयभागे ख ॥ वि०टि० p “ अनन्तानुबन्धि[ भिरिति एतैर्बध्यमानैरेव एतद्बध्यते इति सूचयति" जै०वि०प० ॥ २९६
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy