________________
[श्रु०१। अ०३। उ०२। सू०११९] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् णिव्विंद णंदि अरते पयासु अणोमदंसी णिसण्णे पावेहिं कम्मेहिं ॥११९॥
निव्विद इत्यादि । निर्विन्दस्व-जुगुप्सस्व, विषयजनितां नन्दी प्रमोदम्; किम्भूतः सन् ? प्रजासु = स्त्रीषु अरक्तः = रागरहितः; भावयेच्च यथा-'एते विषयाः किम्पाकफलोपमाः त्रपुषीफलनिबन्धनकटवः', अतस्तदर्थं परिग्रहाग्रहयोगपराङ्मुखो भवेदिति । उत्तमधर्मपालनार्थमाह
अणोम० इत्यादि । अवमं हीनं मिथ्यादर्शना-ऽविरत्यादि, तद्विपर्यस्तं अनवमम्, तद् द्रष्टुं शीलमस्य इति अनवमदर्शी सम्यग्दर्शन-ज्ञान-चारित्रवान्; एवम्भूतः सन् प्रजानुगां नन्दी निर्विन्दस्व इति सण्टङ्कः । यश्च अनवमसन्दर्शी स किम्भूतो भवति ? इत्याह
निसन्न० इत्यादि । पापोपादानेभ्यः कर्मभ्यः निषण्ण:-निविण्णः, पापकर्मभ्यः पापकर्मसु वा कर्तव्येषु निवृत्त इति यावत् ॥१२९॥ किञ्च[सू०] कोधादिमाणं हणिया य वीरे,
लोभस्स पासे णिरयं महंतं । तम्हा हि वीरे विरते वधातो,
छिंदिज्ज सोतं लहुभूयगामी ॥१२०(८)॥ कोहादीत्यादि वृत्तम् । क्रोध आदिः येषां ते क्रोधादयः, मीयते-परिच्छिद्यते अनेन इति मानं स्वलक्षणं अनन्तानुबन्ध्यादिविशेषः, क्रोधादीनां मानं क्रोधादिमानम्, क्रोधादिः वा यो मानः गर्वः, तं हन्यात् । कोऽसौ ? वीरः । द्वेषापनोदमुक्त्वा रागापनोदार्थमाह
___ लोहस्स इत्यादि । लोभस्य अनन्तानुबन्ध्यादेः चतुर्विधस्यापि स्थिति विपाकं च पश्य। स्थितिः महती सूक्ष्मसम्परायानुयायित्वात्, विपाकोऽपि अप्रतिष्ठानादिनरकापत्तेः महान्; यत आगमः-"मच्छा मणुया य सत्तमि पुढविं" [ प्रज्ञा०सू०६।६४७] ते च महालोभाभिभूताः सप्तमपृथिवीभाजो भवन्तीति भावार्थः । यद्येवं ततः किं कर्तव्यम् ? इत्याह
टि० १. सम्यग्ज्ञान-दर्शन-चारित्रवान् च ॥ २. मीयतेऽनेनेति क ङ। मीयतेऽनेन मानं घ॥ ३. क्रोधादेर्वा क || ४. गर्वः क्रोधकारणः । तं ख ग च ॥ ५. धीर: घ ङ च ॥ ६. द्वेषापनोदार्थमुक्त्वा क ग ॥
वि०टि० ० "त्रपुषीफलनिबन्धनं कटुकर्कटीबिण्टम्" स०वि०प० । “निबन्धन इति वृन्तम्" जै०वि०प० ॥
३००