SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ [श्रु०१। अ०३। उ०२। सू०११३ ( ५ ) ] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् एवमन्येऽपि जन्तवः' । एवं मत्वा अन्येषां असातोत्पादनं न विदध्याः, एवं च जन्मादिदुःखं न प्राप्स्यसीति । उक्तं च "यथेष्टविषयाः सातमनिष्टा इतरत् तव । अन्यत्रापि विदित्वैवं, न कुर्यादप्रियं जने ॥" [ यद्येवं ततः किम् ? इत्याह तम्हा इत्यादि । तस्मात् जाति-वृद्धि-सुख - दुःखदर्शनात्, अतीव विद्या = तत्त्वपरिच्छेत्त्री यस्य असौ = अतिविद्यः, सः परमं मोक्षं ज्ञानादिकं वा तन्मार्गं ज्ञात्वा सम्यक्त्वदर्शी सन् पापं न करोति, सावद्यमनुष्ठानं न विदधाति इत्युक्तं भवति ॥ ११२(४)॥ पापस्य च मूलं स्नेहपाशाः; तदपनोदार्थमाहउम्मंच पासं इह मच्चिएहिं, आरंभजीवी उभयाणुपस्सी । कामेसु गिद्धा णिचयं करेंति, संसिच्चमाणा पुणरेंति गब्भं ॥ ११३ (५) ॥ [ सू० ] उम्मुंच इत्यादि वृत्तम् । इह मनुष्यलोके चतुर्विधकेषाय-विषयविमोक्षक्षमाधारे मर्त्यैः सार्धं द्रव्य- भावभेदभिन्नं पाशं उत्-प्राबल्येन मुञ्च= अपाकुरु । स हि कामभोगलालसः तदादानहेतोः हिंसादीनि पापानि आरभते, अतोऽपदिश्यते आरंभ० इत्यादि । आरम्भेण जीवितुं शीलमस्य इति आरम्भजीवी महारम्भपरिग्रहप्रकल्पितजीवनोपायः, उभयं शारीर- मानसं ऐहिका - ऽऽमुष्मिकं वा द्रष्टुं शीलमस्य इति स तथा । किञ्च कामेसु इत्यादि । कामाः इच्छा-मदनरूपा:, तेषु गृद्धाः - अध्युपपन्ना निचयं = कर्मोपचयं कुर्वन्ति । यदि नामैवं ततः किम् ? इत्याह- संसिच्च० इत्यादि । तेन कामोपादानजनितेन कर्मणा संसिच्यमानाः = आपूर्यमाणा गर्भाद् गर्भान्तरमुपयान्ति, संसारचक्रवाले अरघट्टघटीयन्त्रन्यायेन पर्यटन्ते आसत इत्युक्तं भवति ॥११३(५)॥ तदेवं अनिभृतात्मा किम्भूतो भवति ? इत्याह [सू० ] अवि से हासमासज्ज, हंता णंदीति मण्णति । अलं बालस्स संगेणं, वेरं वड्ढेति अप्पणो ॥११४(६)॥ टि० १. उम्मुच्च ख च ॥ २. ०कषायविमोक्ष० च ॥ ३. आरम्भे जीवितुं क ॥। ४. ०पायः स उभयं शा० च । ०पायं भयं शा० आचा०शु० ॥ २९२
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy