________________
॥ द्वितीय उद्देशकः ॥ उक्तः प्रथमोद्देशकः । साम्प्रतं द्वितीय आरभ्यते । अस्य च अयमभिसम्बन्धःपूर्वोद्देशके भावसुप्ताः प्रदर्शिताः; इह तु तेषां स्वापविपाकफलमसातमुच्यते इति । अनेन सम्बन्धेन आयातस्य अस्य सूत्रानुगमे सूत्रमुच्चारयितव्यम्, तच्चेदम्[सू०] जातिं च वुद्धिं च इहऽज्ज पास,
भूतेहिं जाण पडिलेह सातं । तम्हाऽतिविज्जं परमं ति णच्चा
सम्मत्तदंसी ण करेति पावं ॥११२(४)॥ जाइं च इत्यादि वृत्तम् । जातिः = प्रसूतिः, बाल-कुमार-यौवनवृद्धावस्थावसाना वृद्धिः, इह मनुष्यलोके संसारे वा, अद्यैव कालक्षेपमन्तरेण, जातिं च वृद्धि च पश्य =अवलोकय । इदमुक्तं भवति- जायमानस्य यद् दुःखं वृद्धावस्थायां च यत् शारीर-मानसमुत्पद्यते तद् विवेकचक्षुषा पश्य । उक्तं च
"जायमाणस्स जं दुक्खं, मरमाणस्स जंतुणो । तेण दुक्खेण संतत्तो, न सरइ जाइमप्पणो ॥[ महानिशी०५।११७] "विरसरसियं रसंतो तो सो जोणीमुहाउ निष्फिडइ ।
माऊए अप्पणो वि य वेयणमतुलं जणेमाणो ॥[तन्दु०वैचा०प्रकी०३९-४०] तथा- "हीण-भिण्णसरो दीणो, विवरीओ विचित्तओ ।
दुब्बलो दुक्खिओ वसइ, संपत्तो दसमि दसं ॥" [ तन्दु०वैचा०प्रकी०५५ ] इत्यादि ।
अथवा आर्य इति आमन्त्रणम्, भगवान् गौतमं आमन्त्रयति- इह आर्य ! जातिं वृद्धिं च तत्कारणं कर्म कार्यं च दुःखं पश्य, दृष्ट्वा अवबुध्यस्व, यथा च जात्यादिकं न स्यात् तथा विधत्स्व । किञ्च अपरम्
भूएहिमित्यादि । भूतानि-चतुर्दशभूतग्रामाः, तैः समं आत्मनः सातं-सुखं प्रत्युपेक्ष्य पर्यालोच्य जानीहि-'यथा त्वं सुखप्रिय एवमन्येऽपीति; यथा वा त्वं दुःखद्विड्
टि० १. ०दि सूत्रम् । जाति: च ॥ २. ०त्तो चरिमं दसं ख विना ॥ ३. जानीहि । तथा हि-यथा च ॥ ४. वा इति खप्रतौ नास्ति । च ग घ ङ च ।।
वि०टि० ० "बाल-कुमारादि अवस्था १०" स०वि०प० ॥
२९१