________________
[श्रु०१। अ०३। उ०१। सू०१११] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् सत्कर्मतास्थानम्, तेजो-वायूच्चैर्गोत्रोद्वलने कालङ्कलीभावावस्थायां नीचैर्गोत्रसत्कर्मतेति द्वितीयम्, यदि वा अयोगिद्विचरमसमये नीचैर्गोत्रक्षये सति उच्चैर्गोत्रसत्कर्मता, एवं द्विरूपगोत्रावस्थाने सत्येकं सत्कर्मतास्थानम्, अन्यतरगोत्रसद्भावे सति द्वितीयमिति ।
एवं कर्म प्रत्युपेक्ष्य तत्सत्तापगमे यतिना यतितव्यमिति । किञ्च
कम्म० इत्यादि । कर्मणो मूलं कारणं मिथ्यात्वा-ऽविरति-प्रमाद-कषाय-योगाः, चः समुच्चये, कर्ममूलं च प्रत्युपेक्ष्य यत् क्षणम् इति "क्षणु हिंसायाम्" [पा०धा०१४६६] क्षणनं-हिंसनं, यत् किमपि प्राण्युपघातकारि तत् कर्ममूलतया प्रत्युपेक्ष्य परित्यजेत् ।
पाठान्तरं वा- 'कम्ममाहूय जं छणं' य उपादानक्षणः अस्य कर्मणः तद्, यत् क्षणं कर्म आहूय-कर्म उपादाय तत्क्षणमेव निवृत्तिं कुर्यात् । इदमुक्तं भवति- अज्ञानप्रमादादिना यस्मिन्नेव क्षणे कर्महेतुकं अनुष्ठानं कुर्यात् तस्मिन्नेव क्षणे लब्धचेतास्तदुपादानहेतोनिवृत्तिं विदध्यादिति । पुनरपि उपदेशदानाय आहपडिलेहिय सव्वं समायाय दोहिं अंतेहिं अदिस्समाणे तं परिणाय मेधावी विदित्ता लोगं वंता लोगसण्णं से मतिमं परक्कमेज्जासि त्ति बेमि ॥१११॥
॥ सीओसणिज्जस्स पढमो उद्देसओ सम्मत्तो ॥ पडिलेहिय इत्यादि । प्रत्युपेक्ष्य पूर्वोक्तं कर्म तद्विपक्षमुपदेशं च, सर्वं समादाय= गृहीत्वा, अन्तहेतुत्वाद् अन्तौ-राग-द्वेषौ, ताभ्यां सह अदृश्यमानः ताभ्यां अनपदिश्यमानो वा, तत् कर्म तदुपादानं वा रागादिकं, ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया च परिहरेदिति । रागादिमोहितं लोकं विषय-कषायलोकं वा ज्ञात्वा, वान्त्वा च लोकसञ्ज्ञां विषयपिपासासञ्जितां धनाद्याग्रहग्रहरूपां वा, स मेधावी-मर्यादाव्यवस्थितः सन्
पराक्रमेत-संयमानुष्ठाने उद्युक्तो भवेत्, विषयपिपासां अरिषड्वर्ग वा अष्टप्रकारं वा कर्म · अवष्टभ्यात्, इतिः परिसमाप्तौ, ब्रवीमि इति पूर्ववत् ॥१११॥
॥ इति शीतोष्णीयाध्ययनप्रथमोद्देशकटीका समाप्ता ॥ छ ॥
टि० १. गोत्रद्वयसद्भावे ख च ॥ २. ०क्ष्य सत्तापगमे क। ०क्ष्य तत्सत्तापगमाय यतिना ग । ३. तत् क्षणं च ।। ४. क्षणमाहूय कर्मो० ख॥५. विषय-कषायादिकं वा ज्ञात्वा ख। विषयलोकं क॥६.धनायाग्रहग्रहरूपां क ग घ । धनायाग्रहरूपां ङच ।। ७. ०ध्ययनस्य प्रथमोद्देशकटीका परिसमाप्तेति ॥ छ॥ख ॥
वि०टि० @ "अन्तहेतुत्वाद् इ[ति] सुगतिविनाशकत्वात्" जै०वि०प० ॥
२९०