________________
आतङ्कदर्शी पापं न कुर्यात् [श्रु०१। अ०३। उ०२। सू०११५(७)] अवि से इत्यादि श्लोकः । ह्री-भयादिनिमित्तः चेतोविप्लवो हासः, तम् आसाद्यअङ्गीकृत्य स कामगृध्नुः हत्वाऽपि प्राणिनः नन्दीति क्रीडेति मन्यते । वदति च महामोहावृतशुभाध्यवसायो यथा- ‘एते पशवो मृगयार्थं सृष्टाः; मृगया च सुखिनां क्रीडायै भवति' इति; एवं मृषावादा-ऽदत्तादानादिष्वपि आयोज्यम् । यदि नामैवं ततः किम् ? इत्याह
अलमित्यादि । अलं-पर्याप्तं, बालस्य-अज्ञस्य, यः प्राणातिपातादिरूपः सङ्गो विषय-कषायादिमयो वा, तेन अलम्, बालस्य हास्यादिसङ्गेन अलम् । किम् ? इति चेद्, उच्यते
वेरमित्यादि । पुरुषादिवधसमुत्थं वैरम्, तद् बालसङ्गानुषङ्गी सन् आत्मनो वर्धयति, तद्यथा-गुणसेनेन हास्यानुषङ्गाद् अग्निशर्माणं नानाविधैः उपायैः उपहसता नवभवानुषङ्गिकं वैरं वर्धितम् एवमन्यत्रापि विषयसङ्गादौ आयोज्यम् ॥११४(६)॥
यतश्चैवं अतः किम् ? इत्याह[सू०] तम्हाऽतिविज्जं परमं ति णच्चा,
आयंकदंसी ण करेति पावं । अग्गं च मूलं च विगिंच धीरे,
पलिछिंदियाणं णिक्कम्मदंसी ॥११५(७)॥ तम्हा इत्यादि वृत्तम् । यस्माद् बालसङ्गिनो वैरं वर्धते तस्माद् अतिविद्वान् परमं मोक्षपदं सर्वसंवररूपं चारित्रं वा सम्यग्ज्ञानं सम्यग्दर्शनं वा, ‘एतत् परमं' इति ज्ञात्वा किं करोति ? इत्याह
आयंक० इत्यादि । आतङ्कः = नरकादिदुःखम्, तद् द्रष्टुं शीलमस्य इति आतङ्कदर्शी, स पापं पापानुबन्धि कर्म न करोति, उपलक्षणार्थत्वाद् न कारयति नानुमन्यते च। पुनरपि उपदेशदानाय आह
अग्गं च इत्यादि । अग्रं भवोपग्राहिकर्मचतुष्टयम्; मूलं घातिकर्मचतुष्टयम् । यदि वा मोहनीयं मूलम्; शेषाणि त्वग्रम् । यदि वा मिथ्यात्वं मूलम्; शेषं त्वग्रम् । तदेवं सर्वमग्रं मूलं च विगिंच इति त्यज अपनय पृथक्कुरु । तदनेन इदमुक्तं भवति- न कर्मणः पौद्गलिकस्य आत्यन्तिकः क्षयः, अपि त्वात्मनः पृथक्करणम् । कथं मोहनीयस्य मिथ्यात्वस्य वा मूलत्वं इति चेत्, तद्वशात् शेषप्रकृतिबन्धः, यत उक्तम्
टि० १. ०वृता( त )शुभा० क च । ०वृतोऽशुभा० ख घ ङ ॥ २. च च ॥
२९३