________________
अकर्मणो व्यवहाराभावः [श्रु०१। अ०३। उ०१। सू०१११] यदि वा शब्दादिपर्यायेभ्यः तज्जनितराग-द्वेषपर्यायेभ्यो वा जातं यद् ज्ञानावरणीयादि कर्म, तस्य यत् शस्त्रं दाहकत्वात् तपः, तेस्य यः खेदज्ञः स्तज्ज्ञानानुष्ठानतः, सः अशस्त्रस्य= संयमस्यापि खेदज्ञः, पूर्वोक्तादेव हेतोः; हेतु-हेतुमद्भावाच्च योऽशस्त्रस्य खेदज्ञः स पर्यवजातशस्त्रस्यापि खेदज्ञ इति ॥१०९॥
तस्य च संयम-तपःखेदज्ञस्य आश्रवनिरोधाद् अनादिभवोपात्तकर्मक्षयः; कर्मक्षयाच्च यद् भवति तेंदुपदिशति[सं०] अकम्मस्स ववहारो ण विज्जति ।
कम्मुणा उवाधि जायति ॥११०॥ अकम्मस्स इत्यादि । न विद्यते कर्म अष्टप्रकारं अस्य इति अकर्मा, तस्य व्यवहारो न विद्यते नासौ नारक-तिर्यङ्-नरा-ऽमर-पर्याप्तका-ऽपर्याप्तक-बालकुमारादिसेंसारिव्यपदेशभाग् भवति । यश्च सकर्मा स नारकादिव्यपदेशेन व्यपदिश्यत इत्याह
__कम्मुणा इत्यादि । उपाधीयते व्यपदिश्यते येनेति उपाधिः विशेषणं, स उपाधिः कर्मणा ज्ञानावरणीयादिना जायते; तद्यथा- मति-श्रुता-ऽवधि-मन:पर्यायवान् मन्दमतिस्तीक्ष्णो वेत्यादि; चक्षुर्दर्शनी अचक्षुर्दर्शनी निद्रालुरित्यादि; सुखी दुःखी वेति; मिथ्यादृष्टिः सम्यग्दृष्टिः सम्यग्मिथ्यादृष्टिः स्त्री पुमान् नपुंसकः कषायीत्यादि; सोपक्रमायुष्को निरुपक्रमायुष्कोऽल्पायुरित्यादि; नारकस्तिर्यग्योनिरेकेन्द्रियो द्वीन्द्रियः पर्याप्तकोऽपर्याप्तकः सुभगो दुर्भग इत्यादि; उच्चैर्गोत्रो नीचैर्गोत्रो वेति; कृपणस्त्यागी निरुपभोगो निर्वीर्य इत्येवं कर्मणा संसारी व्यपदिश्यते ॥११०॥
यदि नामैवं ततः किं कर्तव्यम् ? इत्याह[सू०] कम्मं च पडिलेहाए कम्ममूलं च जं छणं,
कम्मं च इत्यादि । कर्म ज्ञानावरणीयादि, तत् प्रत्युपेक्ष्य बन्धं वा प्रकृति-स्थितिअनुभाव-प्रदेशात्मकं पर्यालोच्य, तत्सत्ताविपाकापन्नाश्च प्राणिनो यथा भावनिद्रया शेरते तथा अवगम्य अकर्मतोपाये भावजागरणे यतितव्यमिति ।।
_ टि० १. तस्य शस्त्रस्य खेदज्ञ० ख । २. योऽशस्त्रस्यापि खेदज्ञः घ । ३. तदप्यतिदिशति ख च ऋते ॥ ४. ०तेऽस्याष्टप्रकारं कर्मेत्यकर्मा ख च ॥ ५. संसारव्यप० ख ग ॥ ६. ०स्तिर्यग्योन एकेन्द्रियो ख च । स्तिर्यग्योनिक एकेन्द्रियो घ ङ॥ ७. ०क्ष्य कर्मबन्धं वा ख ।। ८. विपाकापन्नांश्च ग-चप्रती विना ॥
२८७