________________
[श्रु०१ । अ०३ । उ०१ । सू०१११]
वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
तदभावश्च अनेन प्रक्रमेण भवति, तद्यथा - अष्टविधसत्कर्मा अपूर्वादिकरणक्षपकश्रेणिप्रक्रमेण मोहनीयक्षयं विधाय अन्तर्मुहूर्तमजघन्योत्कृष्टं कालं सप्तविधसत्कर्मा । ततः शेषघातित्रये क्षीणे चतुर्विधभवोपग्राहिसत्कर्मा जघन्यतोऽन्तर्मुहूर्तं उत्कृष्टतो देशोनां पूर्वकोटिं यावत् । पुनरूर्ध्वं पञ्चहूस्वाक्षरोद्गिरणकालीयां शैलेश्यवस्थामनुभूय अकर्मा भवति । साम्प्रतं उत्तरप्रकृतीनां सदसत्कर्मताविधानं उच्यते—
तत्र ज्ञानावरणीया-ऽन्तराययोः प्रत्येकं उपात्तपञ्चभेदयोः चतुर्दशस्वपि जीवस्थानकेषु गुणस्थानकेषु च मिथ्यादृष्टेरारभ्य केवलिगुणस्थानाद् आरतोऽपरविकल्पाभावात् पञ्चविधसत्कर्मता ।
दर्शनावरणस्य त्रीणि सत्कर्मतास्थानानि, तद्यथा - नवविधं निद्रापञ्चकदर्शनचतुष्टयसमन्वयात्, एतत् सर्वजीवस्थानानुयायि, गुणस्थानेष्वपि अनिवृत्तिबादरकालसङ्ख्येयभागान् यावत् १, ततः कतिचित् सङ्ख्येयभागावसाने स्त्यानर्द्धित्रयक्षयात् षट्सत्कर्मतास्थानम् २, ततः क्षीणकषायद्विचरमसमये निद्रा - प्रचलाद्वयक्षयात् चतुः सत्कर्मतास्थानम्, तस्यापि क्षयः क्षीणकषायकालान्त इति ३ |
वेदनीयस्य द्वे सत्कर्मतास्थाने, तद्यथा— द्वे अपि साता ऽसाते इति एकम्, अन्यतरोदयारूढशैलेश्यवस्थेतरद्विचरमक्षणक्षये सति सातमसातं वा कर्मेति द्वितीयम् ।
२
मोहनीयस्य पञ्चदश सत्कर्मतास्थानानि, तद्यथा - षोडशकषाय- नवनोकषायदर्शनत्रये सति सम्यग्दृष्टेरष्टाविंशतिः १, सम्यक्त्वोद्वलने सम्यग्मिथ्यादृष्टेः सप्तविंशतिः २, दर्शन - द्वयोद्वलने सम्यग् (?) मिथ्यादृष्टेः अनादिमिथ्यादृष्टेर्वा षड्विंशतिः ३, सम्यग्दृष्टेरष्टाविंशतिसत्कर्मणोऽनन्तानुबन्ध्युद्वलने क्षपणे वा चतुर्विंशतिः ४, मिथ्यात्वक्षये त्रयोविंशतिः ५, सम्यग्मिथ्यात्वक्षये द्वाविंशतिः ६, क्षायिकसम्यग्दृष्टेरेकविंशतिः ७, अप्रत्याख्यान-प्रत्याख्यानावरणक्षये त्रयोदश ८, अन्यतरवेदक्षये द्वादश ९, द्वितीयवेदक्षये सत्येकादश १०, हास्यादिषट्कक्षये पञ्च ११, स्ववेदाभावे चत्वारि १२, सञ्ज्वलनक्रोधक्षये त्रयः १३, सञ्ज्वलनमानक्षये द्वौ १४, सञ्चलनमायाक्षये सति एको लोभ : १५, तत्क्षये च मोहनीयाऽसत्ता इति ।
४
आयुषो द्वे सत्कर्मतास्थाने सामान्येन तद्यथा - परभवायुष्कबन्धोत्तरकालं आयुष्कद्वैयमेकम्; द्वितीयं तु तद्बन्धाभाव इति ।
नाम्नो द्वादश सत्कर्मतास्थानानि, तद्यथा - त्रिनवतिः ९३, द्विनवतिः ९२,
टि० १. तु ग ॥ २. ०नेऽनादिमिथ्या० क ग घ च ॥ ३. पुंवेदाभावे ख च । वेदाभावे ग ॥ ४. ०ने । तद्यथा घ ङ ॥ ५. ०द्वये एकम् ङ ॥
२८८