________________
[श्रु०१। अ०३ । उ०१ । सू०१०९ ] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
माई इत्यादि । मध्यग्रहणाच्च आद्यन्तयोः ग्रहणम्, तेन क्रोधादिकषायवान् मद्यादिप्रमादवान् नैरकदुःखमनुभूय पुनः तिर्यक्षु गर्भमुपैति । यस्तु अकषायी प्रमादरहितः किम्भूतो भवति ? इत्याह
उवेह० इत्यादि । बहुवचननिर्देशाद् आद्यर्थो गम्यते, शब्द-रूपादिषु यौ राग-द्वेषौ तौ उपेक्षमाणः-अकुर्वन् ऋजुः भवति =यतिर्भवति । यतिरेव परमार्थत ऋजुः; अपरस्तु अन्यथाभूतस्त्र्यादिपैदार्थाऽन्यथाग्रहाद् वक्रः । किञ्च स ऋजुः शब्दादीनुपेक्षमाणो मरणं=मारः, तदभिशङ्की मरणाद् उद्विजंस्तत् तत् करोति येन मरणात् प्रमुच्यते ||१०८।।
किं तत् करोति ? इत्याह
[सू०] अप्पमत्तो कामेहिं, उवरतो पावकम्मेहिं, वीरे आतगुत्ते खेयणे ।
अप्पमत्त० इत्यादि । कामैः यः प्रमादः तेस्मादप्रमत्तो भवेत् । कश्चाप्रमत्तः स्यात् ? यः कामारम्भकेभ्यः पापेभ्य उपरतो भवति इति दर्शयति- उवरओ इत्यादि । उपरतः मनो-वाक्-कायैः, कुत: ? पापोपादानकर्मभ्यः । कोऽसौ ? वीरः किम्भूतः ? गुप्तात्मा, कश्च गुप्तो भवति ? यः खेदज्ञः । यश्च खेदज्ञः स कं गुणमवाप्नुयात् ? इत्याहजे पज्जवजातसत्थस्स खेतण्णे से असत्थस्स खेतण्णे ।
"
जे असत्थस्स खेतण्णे से पज्जवजातसत्थस्स खेतण्णे ॥१०९॥
निपुणः सः अशस्त्रस्य
जे पज्जव० इत्यादि । शब्दादीनां विषयाणां पर्यवा: - विशेषा:, तेषु तन्निमित्तं जातं शस्त्रं-पर्यवजातशस्त्रं, शब्दादिविशेषोपादानाय यत् प्राण्युपघातकारि अनुष्ठानं तत् पर्यवजातशस्त्रं तस्य, यः पर्यवजातशस्त्रस्य खेदज्ञः निरवद्यानुष्ठानरूपस्य संयमस्य खेदज्ञः; यश्च अशस्त्रस्य संयमस्य खेदज्ञः स पर्यवजातशस्त्रस्य खेदज्ञः । इदमुक्तं भवति - यः शब्दादिपर्यायान् इष्टा-ऽनिष्टात्मकान् तत्प्राप्तिपरिहारानुष्ठानं च शस्त्रभूतं वेत्ति सोऽनुपघातकत्वात् संयममपि अशस्त्रभूतं आत्मपरोपकारिणं वेत्ति; शस्त्रा - शस्त्रे च जानानस्तत्प्राप्ति - परिहारौ [? स्तत्परिहार- प्राप्ती] विधत्ते, एतत्फलत्वाद् ज्ञानस्येति ।
=
२८६
=
=
टि० १. नारकं दुःख० ख । नरकं दुःख० च ॥ २. ०ति यतिरेव क ग च ॥ ३. ०पदार्थग्रहणाद् ख । ० पदार्थान्यथाग्रहणाद् ग घ ङच । ४. ० स्तत् करोति ख विना ।। ५. तत्राप्रमत्तो कआदर्शादृते ।। ६. धीरः च ।। ७. ० शस्त्रम् । तस्य यः खेदज्ञः क ग च । ०शस्त्रम् । यः पर्यव० ख ॥। ८. ०स्य खेदज्ञः ख घ ॥ ९. ०स्य खेदज्ञः ख ॥। १०. ० शस्त्रे विजानान० ख ॥