SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ अप्रमतः परिव्रजेत् [श्रु०१। अ०३। उ०१। सू०१०८] जरासद्भावः । उक्तं च "देवा णं भंते ! सव्वे समवण्णा ? नो इणढे समढे । से केणटेणं भंते ! एवं वुच्चइ ? गोयमा ! देवा दुविहा-पुव्वोववण्णगा पच्छोववण्णगा य । तत्थ णं जे ते पुव्वोववण्णगा ते णं अविसुद्धवण्णयरा, जे णं पेच्छोववण्णगा ते णं विसुद्धवण्णयरा ।" [ प्रज्ञा०सू०१७।१।११४४] एवं लेश्याद्यपीति । च्यवनकाले तु सर्वस्यैव एतद् भवतीति, तद्यथा "माल्यम्लानिः कल्पवृक्षप्रकम्पः, श्री-हीनाशो वाससां चोपरागः । दैन्यं तन्द्रा काम-रागा-ऽङ्गभङ्गो, दृष्टिभ्रान्तिर्वेपथुश्चारतिश्च ॥" [ यतश्चैवं अतः सर्वं जरा-मृत्युवशोपनीतं अभिसमीक्ष्य किं कुर्यात् ? इत्याहपासिय आतुरे पाणे अप्पमत्तो परिव्वए । पासिय इत्यादि । स हि भावजागर: तैः तैः भावस्वापजनितैः शारीर-मानसैः दुःखैः आतुरान्-किङ्कर्तव्यतामूढान् दुःखसागरावगाढान् प्राणान् अभेदोपचारात् प्राणिनः दृष्ट्वा= ज्ञात्वा अप्रमत्तः परिव्रजेत् उद्युक्तः सन् संयमानुष्ठानं विदध्यात् । अपि च मंता एयं मतिमं पास, आरंभजं दुक्खमिणं ति णच्चा, मंता इत्यादि । हे मतिमन् ! सश्रुतिक ! भावसुप्ता-ऽऽतुरान् पश्य, मत्वा च एतद् जाग्रत्-सुप्त-गुण-दोषाऽऽपादनं, मा स्वापमतिं कुरु । किञ्च आरंभजमित्यादि । आरम्भः सावधक्रियानुष्ठानं, तस्माज्जातम् आरम्भजम्; किं तत् ? दुःखं तत्कारणं वा कर्म; इदमिति प्रत्यक्षगोचरापन्नं अशेषारम्भप्रवृत्तप्राणिगणानुभूयमानं इति एतत् ज्ञात्वा-परिच्छिद्य निरारम्भो भूत्वा आत्महिते जागृहि । यस्तु विषय-कषायाऽऽच्छादितचेता भावशायी स किमाप्नुयात् ? इत्याहमायी पमायी पुणरेति गब्भं । उवेहमाणो सद्द-रूवेसु अंजू माराभिसंकी मरणा पमुच्चति ॥१०८॥ टि० १. ०गा य पच्छो० घ । ०गा या पच्चोववण्णगा ङ॥ २. पच्चोववण्णगा ङ।। ३. दृष्टिभ्रंशो वेपथु० ख । दृष्टिभ्रामो वेपथु० ग च ॥ ४. सावद्यानुष्ठानं ख ॥ २८५
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy