________________
[श्रु०१। अ०३ । उ०१ । सू०१०७] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
भाव श्रोतोऽपि शब्दादिकामगुणविषयाभिलाषः, आवर्तश्च श्रोतश्च = आवर्त - श्रोतसी, तयोः राग-द्वेषाभ्यां सम्बन्ध:-सङ्गः, तम् अभिजानाति = आभिमुख्येन परिच्छिनत्ति, यथा— अयं सङ्ग आवर्त - श्रोतसोः कारणम् । जानानश्च परमार्थतः कोऽभिधीयते ? - योऽनर्थं ज्ञात्वा परिहरति । ततश्च अयमर्थः - संसारश्रोतः सङ्गं राग-द्वेषात्मकं ज्ञात्वा यः परिहरति स एव आवर्त-श्रोतसोः सङ्गस्य अभिज्ञाता ।
सुप्त-जाग्रतां दोष-गुणर्परिच्छेदी कं गुणमवाप्नुयात् ? इत्याह
सीतोसिणच्चागी से णिग्गंथे अरति - रतिसहे फारुसियं णो वेदेति जागर - वेरोवरते वीरे ! एवं दुक्खा पमोक्खसि ॥१०७॥
सीओसिण० इत्यादि । सबाह्या - ऽभ्यन्तरग्रन्थरहितः सन् शीतोष्णत्यागी सुखदुःखाऽनभिलाषुकः शीतोष्णरूपौ वा परीषहावतिसहमान: संयमा - संयमा-ऽरति-रतिसहः सन् परुषतां = कर्कशतां पीडाकारितां परीषहाणामुपसर्गाणां वा कर्मक्षपणायोद्यतः साहाय्यं मन्यमानो नो वेत्ति, नै तां पीडाकारित्वेन गृह्णाति इत्युक्तं भवति । यदि वा संयमस्य तपसो वा परुषतां शरीरपीडोत्पादनात् कर्ममलापनयनाद् वा संसारोद्विग्नमना मुमुक्षुर्निराबाधसुखोन्मुखः न वेत्ति, न संयम-तपसी पीडाकारित्वेन गृह्णातीति यावत् । किञ्च–
जागर० इत्यादि । असंयमनिद्रापगमाद् जागर्तीति जागरः, अभिमानसमुत्थः अमर्षावेशः परापकाराध्यवसायो= वैरम्, तस्माद् उपरत:- वैरोपरतः, जागरश्चासौ वैरोपरतश्चेति विगृह्य कर्मधारयः; क एवम्भूतः ? वीरः कर्मापनयनशक्त्युपेतः; एवम्भूतश्च त्वं वीर ! आत्मानं परं वा दुःखाद् दुःखकारणाद् वा कर्मणः प्रमोक्ष्यसीति ॥ १०७ ॥ यश्च यथोक्ताद् विपरीत आवर्त - श्रोतसोः सङ्गमुपगतः अजागरः स किमाप्नुयात् ? इत्याह[सू०] जरा- मच्चुवसोवणीते गरे सततं मूढे धम्मं णाभिजाणति ।
जरा इत्यादि । जरा च मृत्युश्च-जरा- मृत्यू, ताभ्यां आत्मवशमुपनीतः नरः =प्राणी सततम्=अनवरतं मूढः = महामोहमोहितमतिः धर्मं- स्वर्गा - ऽपवर्गमार्गं नाभिजानीते =नावगच्छति । तत् संसारे स्थानमेव नास्ति यत्र जरा - मृत्यू न स्तः । देवानां जराऽभाव इति चेत्, तन्न, तत्रापि उपान्तकाले लेश्या - बल - सुख- प्रभुत्व-वर्णहान्युपपत्तेः अस्त्येव तेषामपि
टि० १. ०परिच्छेदे घ ङ ॥ २. ० संयमरत्यरतिसहः ख - चप्रतिभ्यामृते ॥ ३. न तान् पीडा० खचपुस्तके विना ॥ ४. कर्मलेपापनयनाद्वा ख विना ॥ ५. ० सुखोत्सुको न संयम० ख । ०सुखो न वेत्ति ग ॥ ६. धीरः च ।। ७. धीर ! च ॥ ८. प्रमोक्षाय ] सीति क ॥
२८४