SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ आत्मादिवान् मुनिः [श्रु०१। अ०३ । उ०१ । सू०१०७ ] असौ कं गुणमवाप्नुयात् ? इत्याह— से आयवं इत्यादि । यो हि महामोहनिद्राऽऽवृते लोके दुःखमहिताय जानानो ेलोकसमयदर्शी शस्त्रोपरतः सन् शब्दादीन् कामगुणान् दुःखैकहेतून् अभिसमन्वागच्छति ज्ञपरिज्ञया, प्रत्याख्यानपरिज्ञया च प्रत्याचष्टे ; स मुमुक्षुः आत्मवान् आत्मा ज्ञानादिकः अस्य अस्तीति आत्मवान् । शब्दादिपरित्यागेन हि आत्माऽनेन रक्षितो भवति, अन्यथा नारकैकेन्द्रियादिपाते सति आत्मकार्याऽकरणात् कुतोऽस्य आत्मेति । पाठान्तरं वा- से आयवी नाणवी, आत्मानं श्वभ्रादिपतनरक्षणद्वारेण वेत्तीति आत्मवित्; तथा ज्ञानं=यथावस्थितपदार्थपरिच्छेदकं वेत्तीति ज्ञानवित्; तथा वेद्यते जीवादिस्वरूपं अनेन इति वेदः आचाराद्यागमः, तं वेत्तीति वेदवित्; तथा दुर्गतिप्रसृतजन्तुधरणस्वभावं स्वर्गाऽपवर्गमार्गं धर्मं वेत्तीति धर्मवित्; एवं ब्रह्म - अशेषमलकलङ्कविकलयोगिशर्म वेत्त ब्रह्मवित्, यदि वा अष्टादशधा ब्रह्मेति; एवम्भूतश्चासौ प्रकर्षेण ज्ञायते ज्ञेयं यैस्तानि प्रज्ञानानि मत्यादीनि, तैः लोकं = यथावस्थितं जन्तुलोकं तदाधारं वा क्षेत्रं जानाति, परिच्छिनत्ति इत्युक्तं भवति । य एव शब्दादिविषयसङ्गस्य परिहर्ता स एव यथावस्थितलोकस्वरूपपरिच्छेदीति । यश्च अनन्तरगुणोपेतः स किं वाच्यः ? इत्यत आह मुणी इत्यादि । यो हि आत्मवान् ज्ञानवान् वेदवान् धर्मवान् ब्रह्मवान् प्रज्ञानैः व्यस्तैः समस्तैः वा लोकं जानाति स मुनिः वाच्यः; मनुते मन्यते वा जगतस्त्रिकालावस्थां मुनिरिति कृत्वा । किञ्च– धम्म० इत्यादि । धर्मं - चेतना - ऽचेतनद्रव्यस्वभावं श्रुत चारित्ररूपं वा वेत्तीति धर्मवित्; ऋजुः इति ऋजो: ज्ञान-दर्शन- चारित्राख्यस्य मोक्षमार्गस्य अनुष्ठानाद् अकुटिलो यथावस्थितपदार्थस्वरूपपरिच्छेदाद् वा ऋजुः, सर्वोपाधिशुद्धोऽ ऽवक्र इति यावत् । तदेवं धर्मविद् ऋजुः मुनिः किम्भूतो भवति ? इत्याह आवट्ट० इत्यादि । भावावर्तः जन्म- जरा - मरण-रोग-शोक- व्यसनोपनिपातात्मकः संसार इति । उक्तं हि 'राग-द्वेषवशाविद्धं, मिथ्यादर्शनदुस्तरम् । जन्मावर्ते जगत् क्षिप्तं प्रमादाद् भ्राम्यते भृशम् ॥" [ टि० १. गुणमाप्नुयात् ख ॥ २. लोके समयोपदशी ( र्शी) ग ॥ ३. वेद - धर्मवान् क ॥ ४. ०द् भ्रम्यते ग ॥ वि०टि० ⊕ “ब्रह्मविद् मलरहितः " जै०वि०प० ॥ २८३
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy