________________
[श्रु०१। अ०३। उ०१। सू०१०७] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् यदि वा 'सर्वेऽपि एकेन्द्रियादयो जन्तवः सदा स्वोत्पत्तिस्थानरिरंसवो मरणभीरवः सुखेप्सवो दुःखद्विषः' इत्येवम्भूता समता, तां ज्ञात्वा किं कुर्यात् ? इत्याह
एत्थ सत्थोवरए । अत्र-अस्मिन् षट्कायलोके शस्त्रात् द्रव्य-भावभेदाद् उपरतो धर्मजागरणेन जागृहि । यदि वा यद् यत् संयमशस्त्रं प्राणातिपाताद्याश्रवद्वारं शब्दादिपञ्चप्रकारकामगुणाभिष्वङ्गो वा तस्माद् य उपरतः स मुनिरिति ॥१०६।। आह च
[सू०] जस्सिमे सदा य रूवा य गंधा य रसा य फासा य अभिसमण्णागता भवंति से आतवं नाणवं वेयवं धम्मवं बंभवं पण्णाणेहिं परिजाणति लोगं, मुणीति वच्चे धम्मविदु त्ति अंजू आवट्टसोए संगमभिजाणति ।
जेस्सिमे इत्यादि । यस्य मुनेः इमे प्रत्यात्मवेद्याः समस्तप्राणिगणेन्द्रियप्रवृत्तिविषयभूताः शब्द-रूप-गन्ध-रस-स्पर्शा मनोज्ञेतरभेदभिन्नाः, अभिसमन्वागताः इति अभिः आभिमुख्येन सम्यक् इष्टा-ऽनिष्टावधारणतया अनु इति शब्दादिस्वरूपावगमात् पश्चात् आगता:-ज्ञाता: परिच्छिन्ना यस्य मुनेः भवन्ति स लोकं जानातीति सम्बन्धः । इदमुक्तं भवति- इष्टेषु न रागं उपयाति, नापि इतरेषु द्वेषम्; एतदेव अभिसमन्वागमनं तेषाम्, नान्यदिति । यदि वा इहैव शब्दादयो दुःखाय भवन्ति, आस्तां तावत् परलोक इति । उक्तं च
"रक्तः शब्दे हरिणः, स्पर्श नागो, रसे च वारिचरः । कृपणपतङ्गो रूपे, भुजगो गन्धे ननु विनष्टः ॥ पञ्चसु रक्ताः पञ्च विनष्टा यत्रागृहीतपरमार्थाः ।
एकः पञ्चसु रक्तः प्रयाति भस्मान्ततामबुधः ॥" [ ] अथवा शब्दे पुष्पशालाद् भद्रा ननाश, रूपे अर्जुनकतस्करः, गन्धे गन्धप्रियकुमारः, रसे सौदासः, स्पर्शे सत्यकिः सुकुमारिकापति वा ललिताङ्गकः; परत्र च नरकादियातनास्थानभयमिति । एवं शब्दादीन् उभयदुःखस्वभावान् अवगम्य यः परित्यजेद्
टि० १. इत्येवम्भूतां समतां तां ज्ञात्वा घ ङ ऋते ॥ २. यस्सिमे क । ३. ०रूप-रस-गन्धस्पर्शा ग || ४. सोदासः क च ॥
वि०टि० 9 "परलोक इति समन्वागता भवन्तीति योगः" जै०वि०प० ॥ "पुष्पशालाद् इति गायनात्" जै०वि०प०॥
२८२