________________
अहिताय दुःखम् [श्रु०१। अ०३। उ०१। सू०१०६] सुयइ सुयंतस्स सुयं संकियखलियं भवे पमत्तस्स । जागरमाणस्स सुयं थिरपरिचियमप्पमत्तस्स ॥ [निशी०भा०५३०४] नालस्सेण समं सोक्खं, न विज्जा सह निद्दया । न वेरग्गं पमादेण, नारंभेण दयालुया ॥ [निशी०भा०५३०७] जागरिया धम्मीणं आहम्मीणं तु सुत्तया सेया । वच्छाहिवभगिणीए अकहिंसु जिणो जयंतीए ॥ [ निशी०भा०५३०६] सुयइ य अयगरभूओ सुयं पि से नासई अमयभूयं । होहीइ गोणभूओ नट्ठम्मि सुए अमयभूए ॥"
[बृ०क०भा०३३८२-८७, निशी०भा०५३०३] तदेवं दर्शनावरणीयकर्मविपाकोदयेन क्वचित् स्वपन्नपि यः संविग्नो यतनावांश्च स दर्शनमोहनीयमहानिद्रापगमाद् जाग्रदवस्थ एवेति । ये तु सुप्ता तेऽज्ञानोदयाद् भवन्ति; अज्ञानं च महादुःखम्; दुःखं च जन्तूनां अहिताय इति दर्शयति
लोगंसि जाण अहियाय दुक्खं ।
समयं लोगस्स जाणित्ता एत्थ सत्थोवरते ॥१०६॥ लोयंसि जाण इत्यादि । लोके षड्जीवनिकाये जानीहि परिच्छिन्द्या दै:खहेतुत्वाद् दुःखम् अज्ञानं मोहनीयं वा, तद् अहिताय-नरकादिभवव्यसनोपनिपाताय, इह वा बन्ध-वंध-शरीर-मन:पीडायै जायत इत्येतद् जानीहि । परिज्ञानाच्च एतत् फलं यदुत द्रव्य-भावस्वापाद् अज्ञानरूपाद् दुःखहेतोरपसर्पणमिति । किञ्च अन्यत्
समयमित्यादि । समयः = आचारोऽनुष्ठानं, तं लोकस्य = असुमवातस्य ज्ञात्वा अत्र शस्त्रोपरतो भवेद् इति उत्तरसूत्रेण सम्बन्धः । 'लोको हि भोगाभिलाषितया प्राण्युपमर्दादि-कषायहेतुकं कर्म उपादाय नरकादियातनास्थानेषु उत्पद्यते; ततः कथञ्चिद् उवृत्त्य अवाप्य च अशेषक्लेशवातघ्नं धर्मकारणमार्यक्षेत्रादौ मनुष्यजन्म पुनरपि महामोहमोहितमतिः तत् तद् आरभते येन येनाऽधोऽधो व्रजति, संसारान्नोन्मज्जतीति अयं लोकाचारः, तं ज्ञात्वा । अथवा समभावः समता, तां ज्ञात्वा, लोकस्य इति सप्तम्यर्थे षष्ठी, ततश्च अयमर्थः-लोके जन्तुसमूहे समतां समशत्रु-मित्रतां समात्म-परतां वा ज्ञात्वा ।
टि० १.लोगम्मि क ॥ २. परिच्छिन्द्धि ख ॥ ३. ख-घ-ङ पुस्तकेषु दुःखहेतुत्वाद् इति पाठो नोपलभ्यते ॥ ४. ०वध-शारीरपीडायै ख । ०वध-शारीर-मानसपीडायै च ॥ ५. तत्र ख ॥ ६. उद्धावाप्य क घ ङ॥
२८१