________________
[श्रु०१। अ०३। उ०१। नि०२१४] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् सङ्ख्येयभागेषु कियत्स्वपि गतेषु सत्सु भवति । निद्राप्रचलयोरपि उदये प्राग्वदेव, बन्धोपरमस्तु अपूर्वकरणकालसङ्ख्येयभागान्ते भवति, क्षयः पुनः क्षीणकषायद्विचरमसमये, उदयस्तु उपशमकोपशान्तमोहयोरपि भवति अतो दुरन्तो निद्राप्रमादः ।।२१३।।
___ यथा च द्रव्यसुप्तो दुःखमवाप्नोति एवं भावसुप्तोऽपि (इति) दर्शयितुमाह[नि०] जह सुत्त मत्त मुच्छिय असहीणो पावए बहुं दुक्खं ।
तिव्वं अप्पडियारं विवट्टमाणो तहा लोगो ॥२१४॥
जह सुत्त इत्यादि गाथा । सुप्तः निद्रया, मत्तः मेदिरादिना, मूर्छितः गाढमर्मप्रहारादिना, अस्वाधीनः परायत्तो वातादिदोषोद्भवग्रहादिना यथा बहु दुःखं अप्रतिकारं अवाप्नोति तथा भावस्वापे मिथ्यात्वा-ऽविरति-प्रमाद-कषायादिके विवर्तमानः = अवतिष्ठमानः लोकः-प्राणिगणो नरकभवादिकं दुःखमवाप्नोतीति गाथार्थः ॥२१४॥
पुनरपि व्यतिरेकदृष्टान्तद्वारेण उपदेशदानाय आह[नि०] एसेव य उवएसो पलित्त पेवलाय पंथमादीसु । अणुहवइ जह सचेओ सुहाई समणो वि य तहेव ॥२१५॥ सू०॥
॥सीउसणिज्जं॥ एसेव य इत्यादि गाथा । एष एव पूर्वोक्त उपदेशो यो विवेका-ऽविवेकजनितः; तथा हि-सचेतनो विवेकी प्रदीप्ते सति प्रपलायमानः सुखमनुभवति । पथि विषये च सापाय-निरपायविवेकज्ञः, आदिग्रहणाद् अन्यस्मिन् वा दस्युभयादौ समुपस्थिते सति यथा विवेकी सुखेनैव तमपायं परिहरन् सुखभाग् भवति; एवं श्रमणोऽपि भावतः सदा विवेकित्वाद् जाग्रदवस्थामनुभवन् समस्तकल्याणास्पदीभवति ॥२१५॥
अत्र च सुप्ताऽसुप्ताधिकारगाथा:"जागरह नरा णिच्चं जागरमाणस्स वड्डए बुद्धी । जो सुयइ न सो धण्णो जो जग्गइ सो सया धण्णो ॥ [ निशी०भा०५३०३ ]
टि० १. पि वट्टमाणो ख ज । वियट्टमाणो झ ञ ॥ २. मदिरया, मू० ख ।। ३. ०केऽपि वर्तमानः ख ग ॥ ४. उ ॥ ५. पवलाइ ख ज ठ। पवए य छ । पयलाइ झ ॥ ६. सूत्रम्-॥ छ ॥ख छ ज । सूत्रः (त्रम्)-॥ तृतीयाध्ययने प्रथमोद्देशकः । तृतीयाध्ययनम् ॥ झ। सूत्रम् ॥सीओसणिज्जस्स णिज्जुत्ती॥छ॥। सूत्रम्॥ तृ० अध्ययनम् ।। ठ ।। ७. विवेकजनित: ग ।।
वि०टि०० प्राग्वदेव इति सम्यक्त्वं न प्राप्नोति" जै०वि०प० ।। "उपशमक इति श्रेणिसमारम्भकः" जै०वि०प० ॥
२८०