SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ सुप्ता अमुनयः [श्रु०१ | अ०३ | उ०१ । नि०२१३] अज्ञानिनो दुःखिनो दुःखानामेव आवर्तमनुपरिवर्तन्ते इति । उक्तं च" नातः परमहं मन्ये, जगतो दुःखकारणम् । यथाऽज्ञानमहारोगो दुरन्तः सर्वदेहिनाम् ॥" [ ] इत्यादि । इह सुप्ता द्विधा—द्रव्यतो भावतश्च । तत्र निद्राप्रेमादवन्तो द्रव्यसुप्ताः; भावसुप्तास्तु मिथ्यात्वा-ऽज्ञानमयमहानिद्राव्यामोहिताः; ततो ये अमुनयः - मिथ्यादृष्टयः सततं भावसुप्ताः, सेद्विज्ञानानुष्ठानरहितत्वात्, निद्रया तु भजनीयाः । मुनयस्तु सद्बोधोपेता मोक्षमार्गाद् अचलन्तः ते सततं अनवरतं जाग्रति-हिता - ऽहित - प्राप्ति - परिहारं कुर्वते; अतो द्रव्यनिद्रोपगता अपि क्वचिद् द्वितीयपौरुष्यादौ सततं जागरूका एवेति । एनमेव भावस्वापं जागरणं चै विषयीकृत्य नियुक्तिकारो गाथां जगाद - [नि० ] सुत्ता अमुणी उ सया मुणी उ सुत्ता वि जागरा होंति । धम्मं पडुच्च एवं निद्दासुत्तेण भैइयव्वं ॥२९३॥ सुता इत्यादि । सुप्ता द्विधा - द्रव्यतो भावतश्च । तत्र निद्रया द्रव्यसुप्तान् गाथान्ते वक्ष्यति; भावसुप्तास्तु अमुनयः = गृहस्था मिथ्यात्व - ऽज्ञानावृता हिंसाद्याश्रवद्वारेषु सदा प्रवृत्ताः; मुनयस्तु अपगतमिथ्यात्वनिद्रा-ऽवाप्तसम्यक्त्वादिबोधा भावतो जागरूक एव । यद्यपि क्वचिद् आचार्यानुज्ञाता द्वितीयपौरुष्यादौ दीर्घसंयमाधारशरीरस्थित्यर्थं निद्रावशोपगता भवन्ति तथापि सदा जागरा एव । एवं च धर्मं प्रतीत्य उक्ताः सुप्ता जाग्रदवस्थाश्च । द्रव्यनिद्रासुप्तेन तु भाज्यमेतत्-धर्मः स्याद् वा न वा । यद्यसौ भावतो जागर्ति तो निद्रासुप्तस्यापि धर्मः स्यादेव, यदि वा भावतो जाग्रतो निद्राप्रमादावष्टब्धान्तःकरणस्य न स्यादपि, यस्तु द्रव्य- भावसुप्तस्तस्य न स्यादेव इति भजनार्थः । अथ किमिति द्रव्यसुप्तस्य धर्मो न भवतीति ? ; उच्यते— द्रव्यसुप्तो हि निद्रया भवति सा च दुरन्ता । किमिति ? - यतः स्त्यानर्द्धित्रिकोदये सम्यक्त्वावाप्तिः भवसिद्धिकस्यापि न भवति, तद्बन्धश्च मिथ्यादृष्टि– सास्वादनयोः अनन्तानुबन्धिबन्धसहचरितः, क्षयस्तु अनिवृत्तिबादरगुणस्थानकाल टि० १ ० प्रमादापन्ना द्रव्य० ख ग च ॥ २ तद्विज्ञाना० ख ॥। ३. वा ग ॥। ४. उ ख ॥ ५. भवितव्वं ख । भवियव्वं छ ज । भणियव्वं ञ । भतियव्वं ठ ॥ ६. ०त्वादिनिद्रा अवाप्त० ख च । ० त्वादिनिद्रयाऽवाप्त० घ । ०त्वादिनिद्रावाप्त० ङ ॥ ७ ०माचार० घ ङ ।। वि०टि० " तद्ध [?ध ] र्म इति धर्माख्यं वस्तु" जै०वि०प० ॥ २७९
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy