________________
[श्रु०१। अ०३। उ०१। नि०२११] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् उष्णतरं तपो भवति । किमिति ? यतः कषायादिकमपि दहति, आदिशब्दात् शोकादिपरिग्रह इति गाथार्थः ॥२१०॥ येन अभिप्रायेण द्रव्य-भावभेदभिन्ने परीषहप्रमादोद्यमादिरूपे शीतोष्णे जगाद आचार्यः तमभिप्रायं आविःकरोति
[नि०] सीउण्हफास-सुह-दुह-परीसह-कसाय-वेय-सोयसहो ।
होज्ज समणो सया उज्जतो य तवसंजमोवसमे ॥२११॥ दारं ॥
सीउण्ह० इत्यादि गाथा । शीतं च उष्णं च-शीतोष्णे, तयोः स्पर्शः, तम् सहते इति सम्बन्धः, शीतस्पर्णोष्णस्पर्शजनितवेदनामनुभवन् नार्तध्यानोपगतो भवतीति यावत् । शरीर-मनसोरनुकूलं सुखमिति, तद्विपरीतं दुःखम्, तथा परीषह-कषाय-वेद-शोकान् शीतोष्णभूतान् सहत इति । तदेवं शीतोष्णादिसहः सन् भवेत् श्रमण: यतिः सदोद्युक्तश्च, क्व? तपःसंयमोपशमे इति गाथार्थः ॥२११॥
साम्प्रतं उपसंहारव्याजेन साधुना शीतोष्णातिसहनं कर्तव्यमिति दर्शयति[नि०] सीयाणि य उण्हाणि य भिक्खूणं होति विसहियव्वाइं । कामा ण सेवियव्वा सीउसणिज्जस्स निज्जुत्ती ॥२१२॥
णामणिप्फण्णो गओ ॥छ॥ सीयाणि य इत्यादि गाथा । शीतानि परीषह-प्रमादोपशम-विरति-सुखरूपाणि यानि अभिहितानि, उष्णानि च परीषह-तपउद्यम-कषाय-शोक-वेदा-ऽरत्यात्मकानि प्रागभिहितानि; तानि भिक्षुणांमुमुक्षूणां विषोढव्यानि, न सुख-दुःखयोः उत्सेक-विषादौ विधेयौ । तानि चैवं सम्यग्दृष्टिना सह्यन्ते यदि कामपरित्यागो भवतीति गाथाशकलेनाहकामा इत्यादि, गाथार्धं सुगमम् ॥२१२।।
___ गतो नामनिष्पन्नो निक्षेपः । साम्प्रतं सूत्रानुगमे अस्खलितादिगुणोपेतं अशेषदोषव्रातविकलं सूत्रमुच्चारयितव्यम्; तच्चेदम्[सू०] सुत्ता अमुणी, मुणिणो सया जागरंति ।
सुत्ता इत्यादि सूत्रम् । अस्य च अनन्तरसूत्रेण सम्बन्धो वाच्यः, स चायम्इह दुःखी दुःखानामेव आवर्तमनुपरिवर्तते [सू०१०५] इत्युक्तम्, तद् इहापि भावसुप्ता
टि० १. उज्जुओ क ॥ २. ०वेदान् शीतो० ख ॥ ३. साधूनां ख ॥ ४. ०मनुवर्तत क ॥
२७८