________________
निर्वाणसुखमेव सुखम् [श्रु०१। अ०३। उ०१। नि०२१०] तद्गृहः तदावासः, को असौ ? संयमः सप्तदशभेदः; अतो असौ शीतो भवति, समस्तदुःखहेतुद्वन्द्वोपरमात् । एतद्विपर्ययस्तु असंयम उष्णः । एषः शीतोष्णलक्षणः संयमाऽसंयमयोः पर्यायः, अन्यो वा सुख-दुःखरूपो विवक्षावशाद् भवतीति गाथार्थः ॥२०८।।
साम्प्रतं सुखपदविवरणाय आह[नि०] णिव्वाणसुहं सायं सीतीभूतं पयं अणाबाहं ।
इहमवि जं किंचि सुहं तं सीयं दुक्खमवि उण्हं ॥२०९॥ निव्वाणसुहमित्यादि गाथा । सुखं शीतमिति उक्तम्; तच्च समस्तद्वन्द्वोपरमाद् आत्यन्तिकैकान्तिकानाबाधलक्षणं निरुपाधिकं परमार्थचिन्तायां मुक्तिसुखमेव सुखम्, नापरम्; एतच्च समस्तकर्मोपतापाऽभावाच्छीतमिति दर्शयति-निर्वाणसुखम् इति, निर्वाणम् अशेषकर्मक्षयः तदवाप्तौ वा विशिष्टाकाशप्रदेशः, तेन तत्र वा सुखं = निर्वाणसुखम् । अस्य च एकाथिकानि-सातं शीतीभूतं पदमनाबाधमिति । इहापि संसारे यत्किञ्चित् सातावेदनीयविपाकोद्भूतं सात-सुखं तदपि शीतं, मनआह्लादात्; एतद्विपर्ययस्तु दुःखम्; तच्च उष्णमिति गाथार्थः ॥२०९।।
कषायादिपदव्याचिख्यासया आह[नि०] डज्झइ तिव्वकसातो सोगऽभिभूओ उदिण्णवेदो य ।
उण्हयरो होइ तवो कसायमाई वि जं डहइ ॥२१०॥
डज्झइ इत्यादि गाथा । दह्यते परिपच्यते, कोऽसौ ? तीव्रा-उत्कटा उदीर्णा विपाकानुभवेन कषाया यस्य स तथा; न केवलं कषायाग्निना दह्यते शोकाभिभूतश्च इष्टवियोगादिजनितः शोकः, तेन अभिभूतः तिरोहितशुभव्यापारोऽसावपि दह्यते; तथा उदीर्ण: विपाकापन्नो वेदो यस्य स तथा । उदीर्णवेदो हि पुमान् स्त्रियं कामयते, साऽपीतरम्, नपुंसकस्तूभयमिति; तत्प्राप्त्यभावे काङ्क्षोद्भूतारतिदाहेन दह्यते । चशब्दाद् इच्छाकामाप्राप्तिजनितारतिपावकेन च दह्यते ।
तदेवं कषायाः शोको वेदोदयश्च दाहकत्वाद् उष्ण: [?ष्णा:], सर्वं वा मोहनीयमष्टप्रकारं वा कर्म उष्णम् । ततोऽपि तद्दाहकत्वाद् उष्णतरं तप इति गाथाशकलेन दर्शयति
टि० १. तद्गृहं घ च ॥ २. सीयं झ ॥ ३. ०भूतं सुहं अणाबाधं ख ॥ ४. ०सुखम् अशेष० ख ॥ ५. ०रतिदाहकेन ख ॥ .
वि०टि० "तत्प्राप्तिः इति यथासम्भवं घटना" जै०वि०प० ॥
२७७