________________
[श्रु०१। अ०३। उ०१। नि०२०६] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् उष्णाः; ये पुनरुदीर्णाः शारीरमेव केवलं दुःखमुत्पादयन्ति महासत्त्वस्य, न मानसं, ते भावतो मन्दपरिणामाः । यदि वा ये तीव्रपरिणामाः प्रबलाविर्भूतस्वरूपाः ते उष्णाः; ये तु मन्दपरिणामाः ईषल्लक्ष्यमाणस्वरूपाः ते शीता इति ॥२०५।।
यत् परीषहानन्तरं प्रमादपदमुपन्यस्तं शीतत्वेन; यच्च तपस्युद्यम इत्युष्णत्वेन तदुभयं गाथया आचष्टे[नि०] धम्मम्मि जो पमायइ अत्थे वा सीयलो त्ति तं बेंति ।
उज्जुत्तं पुण अन्नं तत्तो उण्हं ति णं बेंति ॥२०६॥ दारं ॥
धम्मम्मि जो इत्यादि । धर्मे = श्रमणधर्मे यः प्रमाद्यति नोद्यमं विधत्ते अर्थे वा, अर्थ्यत इति अर्थः धन-धान्य-हिरण्यादिः, तत्र तदुपाये वा, शीतल इत्येवं तं ब्रुवते आचक्षते । उद्युक्तं पुनरन्यं ततः संयमोद्यमात् कारणाद् उष्णमित्येवं ब्रुवते । णमिति वाक्यालङ्कारे इति गाथार्थः ॥२०६॥ उपशमपदव्याचिख्यासया आह[नि०] सीतीभूतो परिणिव्वुतो य सन्तो तहेव पण्हाणो ।
होउवसन्तकसातो तेणुवसन्तो भवे सीतो ॥२०७॥ दारं ॥
सीतीभूतो इत्यादि गाथा । उपशमो हि क्रोधाद्युदयाऽभावे भवति, ततश्च कषायाग्न्युपशमात् शीतीभूतो भवति; क्रोधादिज्वालानिर्वाणात् परिनिर्वृतो भवति; चः समुच्चये, राग-द्वेषपावकोपशमादुपशान्तः; तथा क्रोधादिपरितापोपशमात् प्रह्लादितः= आपन्नसुखः; यतो हि उपशान्तकषाय एव एवम्भूतो भवति तेनोपशान्तकषायः शीतो भवतीति । एकाथिकानि चैतानीति गाथार्थः ॥२०७।।
अधुना विरतिपदव्याख्यामाह[नि०] अभयकरो जीवाणं सीयघरो संजमो हवइ सीतो ।
अस्संजमो य उण्हो एसो अन्नो व पज्जातो ॥२०८॥ दारं ॥ अभय० इत्यादि गाथा । अभयकरणशीलः, केषां ? जीवानाम्, शीतं = सुखं,
टि० १. जे झ ॥ २. हि क ॥ ३. धम्मंसि ख ॥ ४. अथवा अर्थ्यत क ग ।। ५. शीतलं तं ख ।। ६. हवति सीतो ज । भवे जीवो ख ॥ ७. कषायाद्युपशमात् ग ।। ८. वि ज-ठआदर्शों विना ॥
वि०टि० ० "तदपाय इति यः प्रमाद्यति" जै०वि०प० ।।
२७६