________________
शीतोष्णपरीषहाः [श्रु०१। अ०३। उ०१। नि०२०५] सीयमित्यादि । शीतम् इति भावशीतम्; तच्च इह जीवपरिणामस्वरूपं गृह्यते । स चायं परिणामः-मार्गाऽच्यवन-निर्जरार्थं परिषोढव्याः परीषहाः; प्रमादः कार्यशैथिल्यं शीतलविहारता; उपशमः मोहनीयोपशमः, स च सम्यक्त्व-देशविरति-सर्वविरतिलक्षणः, उपशमश्रेण्याश्रितो वा, तत्क्षयो वेति; विरतिः इति प्राणातिपातादिविरत्युपलक्षितः सप्तदशविधः संयमः; सुखं च सातावेदनीयविपाकाविर्भूतम्; एतत् सर्वं परीषहादि शीतम् । उष्णं च गाथाशकलेनाह
__परीषहाः पूर्वव्यावर्णितस्वरूपाः, तपस्युद्यमः यथाशक्ति द्वादशप्रकारतपोऽनुष्ठानम्, कषायाः क्रोधादयः, शोकः इष्टाप्राप्ति-विनाशोद्भव आधिः; वेदः स्त्री-पुं-नपुंसकवेदोदयः, अरति: मोहनीयविपाकात् चित्तदौस्थ्यम्, दुःखं च असातावेदनीयोदयादिति; एतानि परीषहादीनि पीडाकारित्वाद् उष्णमिति गाथासमासार्थः ॥२०३।।
व्यासार्थं तु नियुक्तिकारः स्वत एव आचष्टे, तत्र परीषहाः शीतोष्णयोः द्वयोरपि अभिहिताः, ततो मन्दबुद्धेः अनध्यवसायः संशयो विपर्ययो वा स्यात्; अतः तदपनोदार्थमाह[नि०] इत्थी सक्कारपरीसहो य दो भावसीयला एए ।
सेसा वीसं उण्हा परीसहा होंति नायव्वा ॥२०४॥
इत्थी इत्यादि गाथा । स्त्रीपरीषहः सत्कारपरीषहश्च द्वौ अपि एतौ शीतौ, भावमनोऽनुकूलत्वात् । शेषास्तु पुनर्विंशतिरुष्णा ज्ञातव्या भवन्ति, मनसः प्रतिकूलत्वादिति गाथार्थः ॥२०४॥ यदि वा परीषहाणां शीतोष्णत्वमन्यथा आचष्टे[नि०] जे तिव्वपरीणामा परीसहा ते भवन्ति उण्हा तु ।
जे मंदपरीणामा परीसहा ते भवे सीया ॥२०५॥ दारं ॥
जे इत्यादि गाथा । तीव्रः दुःसहः परिणाम:=परिणतिः येषां ते तथा, य एवम्भूताः परीषहास्ते उष्णाः ; ये तु मन्दपरिणामास्ते शीता इति । इदमुक्तं भवति- ये शारीरदुःखोत्पादकत्वेन उदीर्णाः सम्यक्सहनाभावाच्च आधिविधायिनः ते तीव्रपरिणामत्वाद्
टि० १. तुम्हा क ॥ २. शरीर० घ॥
वि०टि० ० "परिषोढव्या इति सम्यक्सह्यमानाः सीताः" जै०वि०प० ॥ क "तत्क्षये( यो) मोहनीयक्षयः"जै०वि०प० ॥ A "अनध्यवसायम्( यः) इति न विचारक्षम द्वयमपि । संशय इति शीतं चेद् उष्णं कथम् ? । विपर्य[य] इति एकमेव शीतमुष्णं वा न द्वे" जै०वि०प० ॥
२७५