________________
[श्रु०१। अ०३। उ०१। नि०२०१] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
चतुर्थोद्देशके तु अयमर्थाधिकारो यथा-कषायाणां वमनं कार्यं पापस्य च कर्मणो विरतिः, विदुषः=विदितवेद्यस्य संयमोऽत्रैव प्रतिपाद्यते, क्षपक श्रेणिप्रक्रमाप्तकेवलभवोपग्राहिक्षयात् मोक्षश्चेति गाथाद्वयार्थः ॥१९९-२००॥
नामनिष्पन्ने तु निक्षेपे शीतोष्णीयम्; अतः शीतोष्णयोः निक्षेपं निर्दिदिक्षुराह[नि०] नामं ठवणा सीयं दव्वे भावे य होइ नायव्वं ।
एमेव य उण्हस्स वि चउव्विहो होइ निक्खेवो ॥२०१॥ नाम ठवणा इत्यादि । सुगमा ॥२०१॥
तत्र नाम-स्थापने अनादृत्य द्रव्यशीतोष्णे दर्शयितुमाह[नि०] दव्वे सीयलदव्वं दव्वुण्डं चेव होइ उण्हं तु । ___भावे उ पुग्गलगुणो जीवस्स गुणो अणेगविहो ॥२०२॥
दव्वे इत्यादि । ज्ञशरीर-भव्यशरीरव्यतिरिक्तं द्रव्यशीतं शीतगुणोपेतं, गुणगुणिनोरभेदात्; शीतकारणं वा यद् द्रव्यं, द्रव्यप्राधान्यात्; शीतलद्रव्यमेव द्रव्यशीतं 'हिमतुषार-करक-हारादि । एवं द्रव्योष्णमपीति ।
___ भावतस्तु द्वेधा पुद्गलाश्रितं जीवाश्रितं च गाथाशकलेनाचष्टे-तत्र पुद्गलाश्रितं भावशीतं पुद्गलस्य शीतो गुणः, गुणस्य प्राधान्यविवक्षयेति । एवं भावोष्णमपि । जीवस्य तु शीतोष्णरूपोऽनेकविधो गुणः, तद्यथा-औदयिकादयः षड् भावाः । तत्रौदयिकः कर्मोदयाविर्भूतनारकादिभव-कषायोत्पत्तिलक्षण उष्णः । औपशमिकः कर्मोपशमाऽवाप्तसम्यक्त्व-विरतिस्वरूपः शीतः । क्षायिकोऽपि शीत एव, क्षायिकसम्यक्त्वचारित्रादिरूपत्वात्; अथवा अशेषकर्मदाहान्यथानुपपत्तेः उष्णः । शेषा अपि विवक्षातो द्विरूपा अपीति ॥२०२॥ अस्य च जीवभावगुणस्य शीतोष्णविवेकं स्वत एव नियुक्तिकारः प्रचिकटयिषुराह[नि०] सीयं परीसह पमायुवसम विरती सुहं च, उण्हं तु ।
परीसहतवुज्जमकसायसोगवेयारई दुक्खं ॥२०३॥ दारगाहा ॥
टि० १. दमनं ख ॥ २. शीतोष्णीयमध्ययनम्; अतः घ ङ॥ ३. वि निक्खेवे( वो) चउव्विहो होति ञ ॥ ४. चेव उण्हदव्वं तु ख ज ठ । चेव उण्हदव्वं च ज ॥ ५. य ठ ॥ ६. हिम-करक-तुषारहारादि ख । हिम-तुषार-क-हारादि ग ।। ७. पमाय पसम ख छ ज । पमाउवसम झ । पमायुपसम ठ ॥ ८. च क-छप्रती ऋते ।।
२७४