________________
॥ तृतीयमध्ययनं शीतोष्णीयम् ॥
॥ प्रथम उद्देशकः ॥ उक्तं द्वितीयमध्ययनम् । साम्प्रतं तृतीयमारभ्यते । अस्य च अयमभिसम्बन्धः-तत्र शस्त्रपरिज्ञायां अस्य अर्थाधिकारोऽभाणि यथा-शीतोष्णयोः अनुकूल-प्रतिकूलपरीषहयोः अतिसहनं कर्तव्यम्, तदधुना प्रतिपाद्यते । अध्ययनसम्बन्धस्तु शस्त्रपरिज्ञोक्तमहाव्रतसम्पन्नस्य लोकविजयाध्ययनप्रसिद्धसंयमव्यवस्थितस्य विजितकषायादिलोकस्य मुमुक्षोः कदाचिद् अनुलोम-प्रतिलोमाः परीषहाः प्रादुःषन्ति, तेऽविकृतान्त:करणेन सम्यक् सोढव्या इति अनेन सम्बन्धेन आयातमिदमध्ययनम् । अस्य च उपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति । तत्र उपक्रमे अर्थाधिकारो द्वधा । तत्रापि अध्ययनार्थाधिकारोऽभिहितः । उद्देशार्थाधिकारप्रतिपादनार्थं तु नियुक्तिकार आह[नि०] पढमे सुत्ता अस्संजय त्ति बिइए दुहं अणुहवंति ।
ततिए ण हु दुक्खेणं अकरणयाए व समणो त्ति ॥१९९॥ [नि०] उद्देसम्मि चउत्थे अहिगारो उ वमणं कसायाणं ।
___ पावेविरई उ विउणो उ संजमो एत्थ मुक्खु त्ति ॥२००॥
पढमे इत्यादि, उद्देसम्मि इत्यादि । प्रथमोद्देशके अयमर्थाधिकारो यथा भावनिद्रया सुप्ता: सम्यग्विवेकरहिताः, के ? असंयताः गृहस्थाः, तेषां च भावसुप्तानां दोषा अभिधीयन्ते, जाग्रतां च गुणाः, तद्यथा-जरामच्चुवसोवणीए नरे [सू०१०८] इत्यादि । द्वितीये तु त एवासंयता यथा भावनिद्रापन्ना दुःखमनुभवन्ति तथोच्यते, तद्यथा-कामेसु गिद्धा निचयं करेंति [सू०११३] । तृतीये तु न हु-नैव दु:खसहनादेव केवलात् श्रमणः अकरणतयैव-अक्रिययैव, संयमानुष्ठानमन्तरेण इत्यर्थः । वक्ष्यति च-सहिए दुक्खमायाए तेणेव य पुट्ठो नो झंझाए [सू०१२७] ।
__ टि० १. तस्य क ॥ २. चित् प्रतिलोमा-ऽनुलोमाः ख च ॥ ३. अस्संजयंति बिइए ज। अस्संजतो( त )त्ति बीए ॥ ४. अ छ ॥ ५. ०वविरईओ ख ॥ ६. य ॥ ७. ०ये तदेवासंयता क ।
ये तु तदेवासंयता घ ।। ८. ०ता ये भाव० ख ॥ ९. ०मादाय णो वुद्धो ?हो ] णो सं(झं)ज्झाए ख । ०मादाय तेणेव य पुट्ठो च ॥
___ वि०टि० 卐 दृश्यतां आचा०नि०३३ ॥ ॐ सहिते दुक्खमत्ताए पुट्ठो नो झंझाए इत्येवं सूत्रम्; वृत्तिकभ्दिभास्तु चूर्णिकारसम्मतपाठो गृहीत इत्यवधेयम् ॥
२७३