________________
वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
छणं छणं परिण्णाय लोगसण्णं च सव्वसो ॥ १०४ ॥
से मेहावी इत्यादि । से मेधावी = बुद्धिमान् यः अणोद्घातनस्य खेदज्ञः अणति अनेन जन्तुगणः चतुर्गतिकं संसारमिति अणं कर्म, तस्य उत्= प्राबल्येन घातनम् अपनयनं, तस्य तत्र वा खेदज्ञः=निपुणः । इह हि कर्मक्षपणोद्यतानां मुमुक्षूणां यः कर्मक्षपणविधिज्ञः स मेधावी कुशलों वीर इत्युक्तं भवति ।
किञ्च अन्यत्-जे य इत्यादि । यश्च प्रकृति-स्थिति- अनुभाव - प्रदेशरूपस्य चतुर्विधस्यापि बन्धस्य यः प्रमोक्षः तदुपायो वा, तं अन्वेष्टुं = मृगयितुं शीलं अस्य इति अन्वेषी, यश्च एवम्भूतः स वीरो मेधावी खेदज्ञ इति पूर्वेण सम्बन्धः । अणोद्घातनस्य खेदज्ञ इति अनेन मूलोत्तरप्रकृतिभेदभिन्नस्य योगनिमित्तायातस्य कषायस्थितिकस्य कर्मणो बध्यमानावस्थां बद्ध-स्पृष्ट-निधत्त-निकाचितरूपां तदपनयनोपायं च वेत्ति इत्येतद् अभिहितम्; अनेन च अपनयनानुष्ठानमिति न पुनरुक्तदोषानुषङ्गः प्रसजति ।
स्यादेतत्-योऽयं अणोद्घातनस्य खेदज्ञो बन्ध - मोक्षान्वेषको वा अभिहितः स किं छद्मस्थ आहोस्वित् केवली ?, केवलिनो यथोक्तविशेषणासम्भवात् छद्मस्थस्य ग्रहणम् । केवलिनः तर्हि का वार्ता ? इति, उच्यते—
[श्रु०१। अ०२। उ०६ । सू०१०४]
कुसले इत्यादि । कुशलोऽत्र क्षीणघातिकर्मांशो विवक्षितः; स च तीर्थकृत् सामान्यकेवली वा । छद्मस्थो हि कर्मणा बद्धो मोक्षार्थी तदुपायान्वेषकः; केवली तु पुनः घातिकर्मक्षयाद् नो बद्धः, भवोपग्राहिकर्मसद्भावाद् नो मुक्तः । यदि वा छद्मस्थ एव अभिधीयते कुशलः अवाप्तज्ञान-दर्शन- चारित्रः मिथ्यात्व - द्वादशकषायोपशम-क्षयोपशमसद्भावात् तदुदयवान् इव न बद्धः, अद्यापि तत्सत्कर्मतासद्भावाद् नो मुक्तः इति ।
एवम्भूतश्च स कुशलः केवली छद्मस्थो वा यद् आचीर्णवान् यद् आचरति वा तद् अपरेणापि मुमुक्षुणा विधेयमिति दर्शयति—
से जं च इत्यादि । स कुशलो यद् आरभते आरब्धवान् वा अशेषकर्मक्षपणोपायं संयमानुष्ठानम्, यच्च नारभते मिथ्यात्वा ऽविरत्यादिकं संसारकारणं, तद् आरब्धव्यं आरम्भणीयं अनारब्धं अनारम्भणीयं चेति । संसारकारणस्य च मिथ्यात्वा - ऽविरत्यादेः प्राणातिपाताद्यष्टादशरूपस्य च एकान्तेन निराकार्यत्वात्, तन्निषेधे च विधेयस्य संयमानुष्ठानस्य सामर्थ्यायातत्वात् तन्निषेधमाह
मुमुक्षुः
२७०
अणाद्धं चेत्यादि । अनारब्धम् = अनाचीर्णं केवलिभिः विशिष्टमुनिभिः वा तद् नारभेत=न = न कुर्याद् इत्युपदेशः; यच्च मोक्षाङ्गं आचीर्णं तत् कुर्याद् इत्युक्तं भवति । टि०-१. से मेह्नवी बुद्धिमान् च ॥ २. तु इति खप्रतौ नास्ति ॥ ३. ०क्षयोपायं ख ॥ ४. नारभते ग घ ङ॥