________________
बद्धप्रतिमोचको वीरः [श्रु०१। अ०२। उ०६। सू०१०३] कथनीयम्। एतदुक्तं भवति-धर्मकथाविधिज्ञो हि आत्मना परिपूर्णः श्रोतारं आलोचयति द्रव्यतः, क्षेत्रतः किमिदं क्षेत्रं तच्चन्निकैः भागवतैरन्यैः वा तज्जातीयैः पार्श्वस्थादिभिः वा उत्सर्गरुचिभिः वा भावितम्, कालतो दुःषमादिकं कालं दुर्लभद्रव्यकालं वा, भावतः अरक्तद्विष्ट-मध्यस्थभावापन्नम्; एवं पर्यालोच्य यथा यथा असौ बुध्यते तथा तथा धर्मकथा कार्या । एवं असौ धर्मकथायोग्यः; अपरस्य तु अधिकार एव नास्तीति । उक्तं च- “जो हेउवायपक्खम्मि हेओ आगमे य आगमिओ ।
सो ससमयपण्णवओ सिद्धंतविराहओ अण्णो ॥" [ सन्मति०३/४५] ॥१०२।।
य एव धर्मकथाविधिज्ञः स एव प्रशस्त इत्याह[सू०] एस वीरे पसंसिए जे बद्धे पडिमोयए, उर्दू अहं तिरियं दिसासु, से सव्वतो सव्वपरिण्णाचारी ण लिप्पति छणपदेण वीरे ॥१०३॥
एस इत्यादि । यो हि पुण्या-ऽपुण्यवतोः धर्मकथासमदृष्टिः विधिज्ञः श्रोतृविवेचक: एषः अनन्तरोक्तः वीरः कर्मविदारकः प्रशंसितः श्लाघितः । किम्भूतश्च यो भवति ? इत्याह
जे बद्धे इत्यादि । यो हि अष्टप्रकारेण कर्मणा स्नेहनिगडादिना वा बद्धानां जन्तूनां प्रतिमोचको धर्मकथोपदेशदानादिना; स च तीर्थकृद् गणधरः आचार्यादिः वा यथोक्तधर्मकथाविधिज्ञ इति । क्व पुन: व्यवस्थितान् जन्तून् मोचयति ? इत्याह-उड़े इत्यादि । ऊर्ध्वं ज्योतिष्कादीन्, अधः भवनपत्यादीन्, तिर्यग्दिक्षु मनुष्यादीनिति । किञ्च
से सव्वओ इत्यादि । स इति वीरो बद्धप्रतिमोचकः सर्वतः सर्वकालं सर्वपरिज्ञया द्विविधयाऽपि चरितुं शीलं अस्य इति सर्वपरिज्ञाचारी विशिष्टज्ञानान्वितः सर्वसंवरचारित्रोपेतो वा । स एवम्भूतः कं गुणं अवाप्नोति ? इत्याह
___ न लिप्पईत्यादि । न लिप्यते-नावगुण्ठ्यते, केन ? क्षणपदेन हिंसास्पदेन प्राण्युपमर्दजनितेन, "क्षणु हिंसायाम्"[पा०धा०१४६६] इति अस्य एतद्रूपम्, कोऽसौ ? वीर इति ॥१०३॥ किं एतावदेव वीरलक्षणं उत अन्यदपि अस्ति ? इत्याह[सू० से मेधावी जे अणुग्घातणस्स खेत्तण्णे जे य बंधपमोक्खमण्णेसी ।
कुसले पुण णो बद्धे णो मुक्के। से जं च आरभे, जं च णारभे, अणारद्धं च ण आरभे ।
टि० १. धर्मकथायोगः ग ॥ २. हेउपक्खवायम्मि हेउओ आगम्मि आगमिओ ख विना ॥ ३. क्षण क-गप्रती ऋते ।।
२६९