SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ [श्रु०१ । अ०२ । उ०६ । सू०१०२] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् हन्यादपि; चशब्दाद् अन्यदपि एवंजातीयं क्रोधाभिभूतो दण्ड- कशादिना ताडयेदिति । उक्तं च # " तत्थेव य निट्टवणं बंधण निच्छुभण कडगमद्दो वा । निव्विसयं वे नरिंदो करेज्ज संघं पि सो कुंद्धो ॥" [] तथा— तच्चनिकोपासको नैंन्द्राऽबलाकुक्षिं उद्भिद्य बुद्धो जातः इति बुद्धोत्पत्तिकथानकात्, भागवतो वा भल्लिगृहोपाख्यानात्, रौद्रो वा पेढालपुत्रसत्यक्युमादिव्यतिकराकर्णनात् प्रद्वेषं उपगच्छेत्; द्रमक - काण - कुण्टादिः वा कश्चित् तमेव उद्दिश्य उद्दिश्य अधर्मफलोपदर्शनेनेति । एवं अविधिकथनेन इहैव तावद् बाधा; आमुष्मिकोऽपि न कश्चिद् गुणोऽस्ति इत्याह च— एत्थं पि इत्यादि । मुमुक्षोः परहितार्थं धर्मकथां कथयतः तावत् पुण्यं अस्ति, परिषदं तु अविदित्वा अनन्तरोपवर्णितस्वरूपकथने अत्रापि = धर्मकथायामपि श्रेयः = पुण्यं इत्येतद् नास्ति इत्येवं जानीहि । यदि वा असौ राजादिः अनाद्रियमाणः तं साधुं धर्मकथिकमपि हन्यात् । किम् ? इत्याह- एत्थं पि इत्यादि । यद् यद् असौ पशुवध - तर्पणादिकं धर्मकारणं उपन्यस्यति तत् तद् असौ धर्मकथिकः 'अत्रापि श्रेयो न विद्यते; अत्रापि श्रेयो न विद्यते ' इत्येवं प्रतिहन्ति । यदि वा यद् यद् अविधिकथनं तत्र तत्र इदं उपतिष्ठति — अत्रापि श्रेयो नास्तीति । तथा हि- अक्षरकोविदपर्षदि पक्ष - हेतु - दृष्टान्तान् अनादृत्य प्राकृतभाषया कथनं अविधिः, इतरस्यां चान्यथा इति । एवं च प्रवचनस्य हीलनैव केवलम्, कर्मबन्धश्च न पुनः श्रेयः; विधिं अजानानस्य मौनमेव श्रेय इति । उक्तं च “सावज्ज-ऽणवज्जाणं वयणाणं जो न याणइ विसेसं । वोत्तुं पि तस्स न खमं किमंग पुण देसणं काउं ? ॥" [महानिशी० ३ । १२३] स्यादेतत्— कथं तर्हि धर्मकथा कार्या ? इति उच्यते केऽयं इत्यादि । यो हि वश्येन्द्रियः विषयविषपराङ्मुखः संसारोद्विग्नमना वैराग्याकृष्यमाणहृदयो धर्मं पृच्छति तेन आचार्यादिना धर्मकथिकेन असौ पर्यालोचनीयः'कोऽयं पुरुषः मिथ्यादृष्टिः उत भद्रकः ?, केन वा आशयेन अयं पृच्छति ?, कं चे देवतार्विशेषं नतः ?, किमनेन दर्शनमाश्रितम् ?' इत्येवं आलोच्य यथायोग्यं उत्तरकालं टि० १. च ग ॥ २. कुट्टो ग ॥ ३. नन्दबलाद् बुद्धोत्पत्तिकथानकात्, कआदर्शं विना ॥ ४. कथम् ? घ ङ ॥ ५. वा ग ॥ ६. ० विशेषं न नतः ? घ ॥ २६८ वि०टि० = "निट्ठवणमिति मारणम्" जै०वि०प० ॥ 'नन्दाबलाद् इति नन्दाकुक्षिमुद्भिद्य सञ्जाता" जै०वि०प० ॥ A " इ ( भ )ल्लिगृह इति राजकुमारेण भल्ल्या विद्धो नरकं गतः " जै०वि०प० । 4.
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy