________________
तुच्छ-पुण्ययोः समानभावेन कथनम् [श्रु०१। अ०२। उ०६। सू०१०२] तदेवं सम्यक्त्वस्वरूपं आख्यातम् । कथयंश्च अरक्त-द्विष्टः कथयतीति दर्शयति
[सू०] जहा पुण्णस्स कत्थति तहा तुच्छस्स कत्थति ।
जहा तुच्छस्स कत्थति तहा पुण्णस्स कत्थति । अवि य हणे अणातियमाणे । एत्थं पि जाण सेयं ति णत्थि ।
केऽयं पुरिसे कं च णए ॥१०२॥ जहा पुन्नस्स इत्यादि । तीर्थकर-गणधरा-ऽऽचार्यादिना (यथा ) येन प्रकारेण पुण्यवत: सुरेश्वर-चक्रवर्ति-माण्डलिकादेः कथ्यते उपदेशो दीयते तथा तेनैव प्रकारेण तुच्छस्य-द्रमकस्य काष्ठहारकादेः कथ्यते । अथवा पूर्णः जाति-कुल-रूपाद्युपेतः; तद्विपरीत: तुच्छः । विज्ञानवान् वा पूर्णः ततः अन्यः तुच्छ इति । उक्तं च
"ज्ञानैश्वर्य-धनोपेतो जात्यन्वय-बलान्वितः ।
तेजस्वी मतिमान् ख्यातः पूर्णस्तुच्छो विपर्ययात् ॥" [ ] एतदुक्तं भवति-यथा द्रमकादेः तदनुग्रहबुद्ध्या प्रत्युपकारनिरपेक्षः कथयति एवं चक्रवादेरपि, यथा वा चक्रवर्त्यादेः कथयति आदरेण संसारोत्तरणहेतुम्; एवमितरस्यापि । अत्र च निरीहता विवक्षिता ।
__ न पुनरयं नियम:-एकरूपतयैव कथनीयम् । तथा हि-यो यथा बुध्यते तस्य तथा कथ्यते; बुद्धिमतो निपुणम्, स्थूलबुद्धेस्तु अन्यथेति । राज्ञश्च कथयता तदभिप्रायं अनुवर्तमानेन कथनीयम्- 'किमसौ अभिगृहीतमिथ्यादृष्टिः अनभिगृहीतो वा संशीत्यापन्नो वा ?; अभिगृहीतोऽपि कुतीर्थिकव्युद्ग्राहितः स्वत एव वा ?' तस्य च एवम्भूतस्य यद्येवं कथयेद् यथा
"देशसूनासमं चक्रं दशचक्रसमो ध्वजः ।
दशध्वजसमा वेश्या दशवेश्यासमो नृपः ॥" [मनुस्मृति०८५] तद्भक्तिविषयरुद्रादिदेवतादारुवनचरितकथने च मोहोदयात् तथाविधर्मोदये कदाचिद् असौ द्वेषं उपगच्छेत्; द्विष्टश्च एतद् विदध्याद् इत्याह च
अवि य इत्यादि । अपिः सम्भावने,आस्तां तावद् वाचा तर्जनं अनाद्रियमाणो
टि० १. दशशूनासमश्चक्री दशचक्रिसमो ध्वजः घ ङ॥ २. ०कर्मोदयात् क ॥ वि०टि० ० "दारुवन इति नाट्यारम्भः" जै०वि०प० । दारुवनचरितं तु दृष्टव्यं द्वितीयपरिशिष्टे ॥
२६७