________________
[श्रु०१। अ०२। उ०६। सू०१०१] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् प्रोच्यते-मोक्षप्रापकः अभिधीयते, सदुपदेशात् ।
स्यादेतत्–किम्भूतः असौ उपदेशः ? इत्यत आह
जं दुक्खं पवेदितं इह माणवाणं तस्स दुक्खस्स कु सला परिणमुदाहरंति, इति कम्मं परिण्णाय सव्वसो ।
जं दुक्खं इत्यादि । यद् दुःखं दुःखकारणं वा कर्म लोकसंयोगात्मकं वा प्रवेदितंतीर्थकृद्भिः आवेदितं इह-अस्मिन् संसारे मानवानां जन्तूनाम्; ततः किम् ? तस्य दुःखस्य असातलक्षणस्य कर्मणो वा कुशला:=निपुणा धर्मकथालब्धिसम्पन्नाः स्वसमयपरसमयविदः उद्युक्तविहारिणो यथावादिनः तथाकारिणो जितनिद्रा जितेन्द्रिया देशकालादिक्रमज्ञाः ते एवम्भूताः परिज्ञाम् उपादानकारणपरिज्ञानं निरोधकारणपरिच्छेदं च उदाहरन्ति ज्ञपरिज्ञया, प्रत्याख्यानपरिज्ञया च परिहरन्ति परिहारयन्ति च । किञ्च
इति कम्मं इत्यादि । इतिः पूर्वप्रक्रान्तपरामर्शकः, यत् तद् दुःखं प्रवेदितं मनुजानां यस्य च दुःखस्य परिज्ञां कुशला उदाहरन्ति तद् दुःखं कर्मकृतं तत् कर्म अष्टप्रकारं परिज्ञाय तदा श्रवद्वाराणि च, तद्यथा-ज्ञानप्रत्यनीकतया ज्ञानावरणीयमित्यादि; प्रत्याख्यानपरिज्ञया प्रत्याख्याय तदाश्रवद्वारेषु सर्वशः सर्वैः प्रकारैः योगत्रिक-करणत्रिकरूपैः न वर्त्तते । अथवा सर्वशः परिज्ञाय कथयति; सर्वशः परिज्ञानं च केवलिनो गणधरस्य चतुर्दशपूर्वविदो वा । यदि वा सर्वशः कथयति आक्षेपण्याद्या चतुर्विधया धर्मकथया इति । सा च कीदृक् कथा ? इत्याहजे अणण्णदंसी से अणण्णारामे, जे अणण्णारामे से अणण्णदंसी ॥१०१॥
जे इत्यादि । अन्यद् द्रष्टुं शीलं अस्य इति अन्यदर्शी, यस्तथा न असौ अनन्यदर्शी यथावस्थितपदार्थदृष्टा, कश्च एवम्भूतः ? यः सम्यग्दृष्टि: मौनीन्द्रप्रवचनाविर्भूततत्त्वार्थः । यश्च अनन्यदृष्टिः सः अनन्यारामः मोक्षमार्गाद् अन्यत्र न रमते । हेतु-हेतुमद्भावेन सूत्रं लगयितुमाह-जे इत्यादि । यश्च भगवदुपदेशाद् अन्यत्र न रमते सोऽनन्यदर्शी; यश्च एवम्भूतः सोऽन्यत्र न रमत इति । उक्तं च
"शिवमस्तु कुशास्त्राणां वैशेषिक-षष्टितन्त्र-बौद्धानाम् । येषां दुर्विहितत्वाद् भगवत्यनुरज्यते चेतः ॥" [ ] इत्यादि ॥१०१॥
टि० १. वर्तेत ख घ च ॥ वि०टि०० "षष्टितन्त्र इति साङ्ख्यकम्" जै०वि०प० ॥
२६६