________________
[श्रु०१ | अ०२। उ०६ । सू०१०१]
लोकसञ्ज्ञात्ययः स्वैरित्वं अभ्युपगम्यते ? तदुच्यते - उद्देशकादेः आरभ्य सर्वं यथासम्भवमायोज्यम् । तथा हि-मिथ्यात्वमोहिते लोके सम्बोद्धुं दुष्करम्, व्रतेषु आत्मानं अध्यारोपयितुम्, रत्यरती निग्रहीतुम्, शब्दादिविषयेषु इष्टा - ऽनिष्टेषु मध्यस्थतां भावयितुम्, प्रान्त - रूक्षाणि भोक्तुम्, एवं यथोद्दिष्टया मौनीन्द्राज्ञया असिधाराकल्पया दुष्करं सञ्चरितुम्, तथा अनुकूल-प्रतिकूलांश्च नानाप्रकारान् उपसर्गान् सोढुम् । [असहने च कैर्मोदयः अनाद्यतीतकालसुखभावना च कारणम् । जीवो हि स्वभावतो दुःखभीरुः अनिरोधसुखप्रियः; अतो निरोधकल्पायां आज्ञायां दुःखं वसति । अवसंश्च किम्भूतो भवति ? इत्याह
तुच्छए इत्यादि । तुच्छ ः = रिक्तः, स च द्रव्यतो निर्धनो घटादिः वा जलादिरहितः; भावतो ज्ञानादिरहितः । ज्ञानरहितो हि क्वचित् संशीतिविषये केनचित् पृष्टः अपरिज्ञानाद् ग्लायति वक्तुम् । ज्ञानसमन्वितो वा चारित्ररिक्तः पूजासत्कारभयात् शुद्धमार्गप्ररूपणावसरे ग्लायति यथावस्थितं प्रज्ञापयितुम्, तथा हि-प्रवृत्तसन्निधिः सन्निधेः निर्दोषतां आचष्टे; एवमन्यत्रापीति । यस्तु कषायमहाविषागदकल्पभगवदाज्ञोपजीवकः स सुवसुमुनिः भवति; अरिक्तो न च ग्लायति वक्तुम्, यथावस्थितवस्तुपरिज्ञानाद् अनुष्ठानात् च ॥१००॥ आह च[सू०] एस वीरे पसंसिए अच्चेति लोगसंजोगं । एस णाए पवुच्चति ।
एस इत्यादि । एषः इति सुवसुमुनिः ज्ञानाद्यरिक्तो यथावस्थितमार्गप्ररूपको वीरः कर्मविदारणात् प्रशंसितः = तद्विद्भिः श्लाघित इति । किञ्च -
अच्चे० इत्यादि । स एवं भगवदाज्ञानुवर्तको वीरः अत्येति=अतिक्रामति, कम् ? लोकसंयोगं लोकेन - असंयतलोकेन संयोगः - सम्बन्धः ममत्वकृतः, तमत्येति । अथवा लोको बाह्योऽभ्यन्तरश्च । तंत्र बाह्यो धन-धान्य- हिरण्य- माता- पित्रादिः ; आन्तरस्तु रागद्वेषादिः तत्कार्यं वा अष्टप्रकारं कर्म । तेन सार्धं संयोगं अत्येति, अतिलङ्घयति इत्युक्तं भवति । यदि नाम एवं ततः किम् ? इत्याह
एस इत्यादि । योऽयं लोकसंयोगातिक्रमः एष न्याय: = एष सन्मार्गो मुमुक्षूणां अयं आचारः प्रोच्यते-अभिधीयते । अथवा परं आत्मानं च मोक्षं नयतीति छान्दसत्वात् कर्तरि घञ् नायः; यो हि त्यक्तलोकसंयोग एष एव परा - ऽऽत्मनोः मोक्षस्य नायः
टि० १. ० रहितः स्वैरी, ज्ञान० ख ॥ २. ०दाज्ञानतिवर्तको ग ॥। ३. ततः ख ॥। ४. सार्धं यो योगस्तं योगम् अत्येति ग ॥
वि०टि० "कर्मा( र्मो )दयः इति कारणम्" जै०वि०प० ॥ # " अनाद्यतीत० इति सदा सुखलिप्सुरेव "
जै०वि०प० ॥
२६५