________________
[श्रु०१। अ०२। उ०६। सू०१००] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
मुणीत्यादि । मुनिः त्रिकालवेदी, यतिरित्यर्थः; मुनेरयं-मौनः संयमः, यदि वा मुनेर्भाव:-मुनित्वं तदपि असावेव, मौनं वा वाचः संयमनम्, अस्य च उपलक्षणार्थत्वात् काय-मनसोरपि; अतः सर्वथा संयम आदाय किं कुर्यात् ?- धुनीयात् कर्मशरीरकं
औदारिकादिशरीरं वा, अथवा धुनीहि विवेचय पृथक्कुरु, तदुपरि ममत्वं मा विधत्स्व इति भावार्थः । कथं तच्छरीरकं धूयते ममत्वं वा तदुपरि न कृतं भवति ? इत्याह
पंतं इत्यादि । प्रान्तं स्वाभाविकरसरहितं स्वल्पं वा, रूक्षम् आगन्तुकस्नेहादिरहितं द्रव्यतः; भावतोऽपि प्रान्तं-द्वेषरहितं विगतधूम, रूक्षं रागरहितं अपगताङ्गार सेवन्ते= भुञ्जते । के ? वीराः साधवः, किम्भूताः ? समत्वदर्शिनः राग-द्वेषरहिताः सम्यक्त्वदर्शिनो वा, सम्यक् तत्त्वं सम्यक्त्वं, तद्दर्शिन:=परमार्थदृशः । तथा हि-इदं शरीरकं कृतघ्नं निरुपकारि; एतत्कृते प्राणिन ऐहिका-ऽऽमुष्मिकक्लेशभाजो भवन्ति ।
‘अनेकादेशे चैकादेशः' इति कृत्वा प्रान्त-रूक्षसेवी समत्वदर्शी च कं गुणं अवाप्नोति ? इत्याह
एस ओघंतरे मुणी तिण्णे मुत्ते विरते वियाहिते त्ति बेमि ॥१९॥
एस इत्यादि । एषः प्रान्त-रूक्षाहारसेवनेन कर्मादिशरीरं धुनानो भावतो भवौघं तरतीति, कोऽसौ ? मुनिः यतिः । अथवा 'क्रियमाणं कृतम्' इति कृत्वा तीर्ण एव भवौघम्; कश्च भवौघं तरति ? यः मुक्तः=सबाह्याभ्यन्तरपरिग्रहरहितः; कश्च परिग्रहाद् मुक्तो भवति ? यो भावतः शब्दादिविषयाभिष्वङ्गाद् विरतः; ततश्च यो मुक्तत्वेन विरतत्वेन वा विख्यातो मुनिः स एव भवौघं तरति, तीर्ण एवेति वा स्थितम् । इतिः अधिकारपरिसमाप्तौ, ब्रवीमि इति पूर्ववत् ॥९९।।
यश्च मुक्तत्व-विरतत्वाभ्यां न विख्यातः स किम्भूतो भवति ? इत्याह
[ सू०] दुव्वसुमुणी अणाणाए, तुच्छए गिलाति वत्तए ॥१००॥
दुव्वसु० इत्यादि । वसु-द्रव्यम्, एतच्च भव्येऽर्थे व्युत्पादितम्, “द्रव्यं च भव्ये" [पा० ५/३/१०४] इति अनेन, भव्यश्च मुक्तिगमनयोग्यः, ततश्च मुक्तिगमनयोग्यं यद् द्रव्यं तद् वसु, दुष्टं वसु-दुर्वसु, दुर्वसु चासौ मुनिश्च दुर्वसुमुनिः मोक्षगमनाऽयोग्यः । स च कुतो भवति ?- अनाज्ञया, तीर्थकरोपदेशशून्यः, स्वैरीत्यर्थः । किमत्र तीर्थकरोपदेशे दुष्करं येन
टि० १. सम्यक्त्वदर्शी च कं गुणं समा( म )वाप्नोति ? ग ॥ २. दुव्वसुमुणी । वसु ख ॥ वि०टि० ० "अनेकर का )देशे इति 'धी(वी?)रा' इत्यत्र बहुवचननिर्देशे सति" जै०वि०प० ।।
२६४