________________
एवम्—
तथा
कर्म्मशरीरधुननम्
यत एवं ततः किम् ? इत्याह
[सू० ] सद्दे फासे अधियासमाणे णिविंद णंदिं इह जीवियस्स ।
सद्दे इत्यादि । यस्माद् वीरो रत्यरती निराकृत्य शब्दादिषु विषयेषु मनोज्ञेषु न रागं उपयाति नापि दुष्टेषु द्वेषं, तस्मात् शब्दान् स्पर्शांश्च मनोज्ञेतरभेदभिन्नान् 'अहियासमीणे' त्ति सम्यक् सहमानो निर्विन्द नन्दीति उत्तरसूत्रेण सम्बन्धः । एतदुक्तं भवति-मनोज्ञान् शब्दान् श्रुत्वा न रागमुपयाति नापि इतरान् द्वेष्टि । आद्यन्तग्रहणाच्च इतरेषामपि उपादानं दृष्टव्यम्, तत्रापि अतिसहनं विधेयमिति । उक्तं च
[श्रु०१। अ०२। उ०६। सू०९९]
"सद्देसु य भद्दय - पावसु सोयविसयं उवगएसु ।
तुद्वेण व रुद्वेण व समणेण सया न होयव्वं ॥ ' [ज्ञाता०१७।४८]
“रूवेसु य भद्दय-पोवएसु०" [ज्ञाता०१७।४९]
""
"गंधेसु य० [ज्ञाता०१७।५०]इत्यादि वाच्यम् ।
ततश्च शब्दादीन् विषयान् अतिसहमान: किं कुर्यात् ? इत्याह
निव्विंद इत्यादि । इह उपदेशगोचरो विनेयः अभिधीयते, सामान्येन वा मुमुक्षोः अयमुपदेशः - निर्विन्दस्व - जुगुप्सस्व ऐश्वर्य - विभवात्मिका मनसः तुष्टिः = नन्दिः, ताम् इह मनुष्यलोके यद् जीवितं असंयमजीवितं वा तस्य या नन्दिः तुष्टिः प्रमोदो वा, यथा-‘मम एतत् समृद्ध्यादिकं अभूद् भवति भविष्यति वा' इत्येवं विकल्पजनितां नन्दि जुगुप्सस्व, यथा—‘किमनया पापोपादानहेतुभूतया अस्थिरया ?' इति, उक्तं च
वि०टि०
“विभव इति किं मदस्ते ? च्युतविभवः किं विषादमुपयासि ? । कैरनिहतकन्दुकसमाः पातोत्पाता मनुष्याणाम् ॥” [
]
+
एवं रूप-बलादिष्वपि वाच्यं सनत्कुमारदृष्टान्तेन । अथवा पञ्चानामपि अतीचाराणां अतीतं निन्दति, प्रत्युत्पन्नं संवृणोति, अनागतं प्रत्याचष्टे ।
स्यादेतत्-किमालम्ब्य करोति ? इत्याह
मुणी मोणं समादाय धुणे कम्मसरीरगं । पंतं लूहं सेवंति वीरा सम्मत्तदंसिणो ॥
टि० १. अभिसहनं क ॥। २. ० पंतयेसु घ ङ ॥ ३. अभिसहमानः क ॥। ४. पुष्टिः ग ॥ ५. करनिहित०
ऋते ॥
'पञ्चानाम् इति महाव्रतानाम्" जै०वि०प० ॥
२६३