________________
[श्रु०१ | अ०२ । उ०६ । सू०९७]
वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
ध्यवसायः, हुः अवधारणे, स एव मुनिः, दृष्टो ज्ञानादिको मोक्षपथो येन स:-दृष्टपथः, यदि वा दृष्टभयः=अवगतसप्तप्रकारभयः, शरीरादेः परिग्रहात् साक्षात् पारम्पर्येण वा पर्यालोच्यमानं सप्तप्रकारमपि भयं आपनीपद्यत इत्यतः परिग्रहपरित्यागे ज्ञातभयत्वं अवसीयत इति । एतदेव पूर्वोक्तं स्पष्टयितुमाह
जस्सेत्यादि । यस्य ममायितं = स्वीकृतं परिग्रहो न विद्यते स दृष्टभयो मुनिरिति सम्बन्धः । किञ्च—
तं परिण्णाय मेहावी विदित्ता लोगं, वंता लोगसण्णं, से मतिमं परक्कमेज्जासि त्ति बेमि ॥ ९७ ॥
तं इत्यादि । तं पूर्वव्यावणितस्वरूपं परिग्रहं द्विविधयाऽपि परिज्ञया परिज्ञाय मेधावी = ज्ञातज्ञेयो विदित्वा लोकं = परिग्रहाग्रहयोगविपाकिनं एकेन्द्रियादिप्राणिगणम्, वान्त्वा = उद्गीर्य लोकस्य - प्राणिगणस्य सञ्ज्ञा दशप्रकारा, अतस्ताम् स इति मुनिः, किम्भूतः ? मतिमान् -सदसद्विवेकज्ञः पराक्रमेथा: - संयमानुष्ठाने समुद्यच्छेः, संयमानुष्ठानोद्योगं सम्यग् विदध्या इति यावत् । अथवा अष्टप्रकारं कर्म्म अरिषड्वर्गं वा विषयकषायान् वा पराक्रमस्व इति, इति अधिकारपरिसमाप्तौ ब्रवीमि इति पूर्ववत् ॥९७॥ स एवं संयमानुष्ठाने पराक्रममाणः त्यक्तपेरिग्रहाग्रहयोगो मुनिः किम्भूतो भवति ? इत्याह
[ सू० ]
णारतिं सहती वीरे, वीरे णो सहती रतिं ।
जम्हा अविमणे वीरे तम्हा वीरे ण रज्जति ॥ ९८ ( ३ ) ॥
णारइं इत्यादि अनुष्टुप् । तस्य हि त्यक्तगृह-गृहिणी-धन - हिरण्यादिपरिग्रहस्य निष्किञ्चनस्य संयमानुष्ठानं कुर्वतः साधोः कदाचिद् मोहनीयोदयाद् अरतिः आविःस्यात्; तामुत्पन्नां संयमविषयां न सहते =न क्षमते, कोऽसौ ? विशेषेण ईरयति=प्रेरयति अष्टप्रकारं कर्म्म अरिषड्वर्गं ेवेति वीरः- शक्तिमान् । स एव वीरो असंयमे विषयेषु परिग्रहे वा या रतिः उत्पद्यते तां न सहते न मर्षयति । या च अरतिः संयमे विषयेषु च रतिः ताभ्यां विमनीर्भूतः न शब्दादिषु रज्यति; अतो रत्यरतिपरित्यागादृ न विमनस्को भवति, नापि रागं उपयातीति दर्शयति-यस्मात् त्यक्तरत्यरतिः अविमना वीरः तस्मात् कारणाद् वीरः न रज्यति शब्दादिविषयग्रामे न गाद्धर्यं विदधाति ॥९८(३) ॥
टि० १. मोक्षपन्था ङच ॥ २. ० परिग्रहयोगो घ ङच ॥ ३. चेति ख च ॥ ४ ०भूतः शब्दादिषु च विना ॥ ५. ०षु न रज्यते ग ॥ ६. धीरस्तत्कारणाद् ख ||
२६२