________________
ममतात्यागे मुनेदृष्टपथत्वम् [श्रु०१। अ०२। उ०६। सू०९७] [ सू० ] पडिलेहाए णो णिकरणाए । एस परिण्णा पवुच्चति कम्मोवसंती ।
पडि० इत्यादि । एतत् संसारचक्रे स्वकृतकर्मफलेश्वराणां असुमतां गृहस्थादिभिः परस्परतो वा कर्मविपाकतो वा प्रव्यथनं प्रत्युपेक्ष्य विदितवेद्यः साधुः निश्चयेन नितरां वा नियतं वा क्रियन्ते नानादुःखावस्था जन्तवो येन तद् निकरणं निकारः शारीरमानसदुःखोत्पादनं, तस्मै नो कर्म कुर्यात्, येन प्राणिनां पीडा उत्पद्यते तमारम्भं न विदध्यादिति भावार्थः । एवं च सति किं भवति ? इत्याह
एस इत्यादि । या इयं सावद्ययोगनिवृत्तिः एषा परिज्ञा एतत् तत्त्वतः परिज्ञानं प्रकर्षेण उच्यते-प्रोच्यते, न पुनः शैलूषस्य इव ज्ञानं निवृत्तिफलरहितमिति । एवं द्विविधयाऽपि ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च प्राणिनिकारपरिहारे सति किं भवति ? इत्याह
'कम्मोवसंती' कर्मणां अशेषद्वन्द्ववातात्मकसंसारतरुबीजभूतानां उपशान्ति:= उपशमः कर्मक्षयः प्राणिनिकारक्रियानिवृत्तेः भवति इत्युक्तं भवति । अस्य च कर्मक्षयप्रत्यूहस्य प्राणिनिकरणस्य मूलं आत्मीयग्रहः, तदपनोदार्थमाह
जे ममाइयमतिं जहाति से जहाति ममाइतं ।
से हु दिट्ठपहे मुणी जस्स णत्थि ममाइतं । जे ममाइयमित्यादि । ममायितं मामकं, तत्र मति: ममायितमतिः, तां यः परिग्रहविपाकज्ञः जहाति परित्यजति स ममायितं स्वीकृतं परिग्रहं जहाति-परित्यजति । इह द्विविधः परिग्रहः- द्रव्यतो भावतश्च । तत्र परिग्रहमतिनिषेधाद् आन्तरो भावपरिग्रहो निषिद्धः; परिग्रहबुद्धिविषयप्रतिषेधात् च बाह्यो द्रव्यपरिग्रह इति । अथवा काक्वा नीयतेयो हि परिग्रहाध्यवसायकलुषितं ज्ञानं परित्यजति स एव परमार्थतः सबाह्या-ऽभ्यन्तरं परिग्रहं परित्यजति । ततश्च इदमुक्तं भवति-सत्यपि सम्बन्धमात्रे चित्तस्य परिग्रहकालुष्याभावाद् नगरादिसम्बद्धपृथिवीसम्बन्धेऽपि जिनकल्पिकस्य इव निष्परिग्रहतैव । यदि नामैवं ततः किम् ? इत्याह
से हु इत्यादि । यो हि मौक्षेकविघ्नहेतोः संसारभ्रमणकारणात् परिग्रहात् निवृत्ता
टि० १. ०कर्मेश्वराणा० ख ॥ २. नानावस्था ख ॥ ३. निवृत्तिपरिज्ञा ख ॥ ४. निमित्तफल ख । निर्वृत्तिफल० ग ॥ ५. प्राणिनिकारे परिहते सति ख ॥ ६. ०सम्बन्धपृथ्वी० ग घ ङ च ।। ७. जिनकल्पस्येव क ॥
वि०टि० • काकु =वक्रोक्तिः ।
-
ज ममा
२६१