________________
[श्रु०१। अ०२। उ०६। सू०९६] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
सएण इत्यादि । यत् तद् उप्तं अन्यजन्मनि दु:खतरुकर्मबीजं तद् आत्मीयं दुःखतरुकार्यं आविर्भावयति; तच्च तेनैव कृतमिति आत्मीयमुच्यते । अतस्तेन स्वकीयेन दुःखेन स्वकृतकर्मोदयजनितेन मूढः परमार्थमजानानः विपर्यासमुपैति सुखार्थी प्राण्युपघातकारिणं आरम्भं आरभते, सुखस्य च विपर्यासो दुःखं, तदुपैति । उक्तं च
"दुःखद्विट् सुखलिप्सुर्मोहान्धत्वाददृष्टगुणदोषः ।
यां यां करोति चेष्टां तया तया दुःखमादत्ते ॥" [ प्रशम०४०] यदि वा मूढः हिता-ऽहितप्राप्ति-परिहाररहितो विपर्यासमुपैति हितमपि अहितबुद्ध्या अधितिष्ठति अहितं च हितबुद्धयेति; एवं कार्याकार्य-पथ्यापथ्य-वाच्याऽवाच्यादिष्वपि विपर्यासो योज्यः । इदमुक्तं भवति- मोहः अज्ञानं मोहनीयभेदो वा तेन उभयप्रकारेणापि मोहेन मूढः अल्पसुखकृते तत् तद् आरभते येन शारीर-मानसदुःखव्यसनोपनिपातानां अनन्तमपि कालं पात्रतां व्रजतीति ।
पुनरपि मूढस्य अनर्थपरम्परां दर्शयितुमाहसएण विप्पमाएण पुढो वयं पकुव्वति जंसिमे पाणा पव्वहिता ॥१६॥
सएण इत्यादि । स्वकीयेन आत्मना कृतेन प्रमादेन मद्यादिना, विविधम् इति मद्य-विषय-कषाय-विकथा-निद्राणां स्वभेदग्रहणम्, तेन पृथक् विभिन्नं व्रतं करोति । यदि वा पृथु-विस्तीर्णं वयमिति वयन्ते पर्यटन्ति प्राणिनः स्वकीयेन कर्मणा यस्मिन् स वयः संसारः, तं प्रकरोति, एकैककाये दीर्घकालावस्थानात् । यदि वा कारणे कार्योपचारात् स्वकीयनानाविधप्रमादकृतेन कर्मणा वयः अवस्थाविशेषः तं एकेन्द्रियादि-कललाऽर्बुदादि-तदहर्जात-बालादि-व्याधिगृहीत-दारिद्र्य-दौर्भाग्यव्यसनोपनिपातादिरूपं प्रकर्षण करोति-विधत्त इति । तस्मिश्च संसारे अवस्थाविशेष वा प्राणिनः पीड्यन्ते इति दर्शयितुमाह
___ जंसिमे इत्यादि । यस्मिन् स्वकृतप्रमादापादितकर्मविपाकजनिते चतुर्गतिकसंसारे एकेन्द्रियाद्यवस्थाविशेषे वा इमे-प्रत्यक्षगोचरीभूताः प्राणाः इति अभेदोपचारात् प्राणिनः प्रव्यथिताः=नानाप्रकारैः व्यसनोपनिपातैः पीडिताः, सुखार्थिभिः आरम्भप्रवृत्तैः मोहाद् विपर्यस्तैः प्रमादवद्भिश्च गृहस्थैः पाषण्डिकैः यत्याभासैश्च इति वा ॥९६।।
यदि नाम अत्र प्रव्यथिताः प्राणिनः ततः किम् ? इत्याह
टि० १. कारणमारभते घ ॥ २. ०कालावस्थानम् । यदि घ ङ च ॥ ३. स्वकीयेन नानाविध० ग ॥ ४. विशेषा इमे ग ॥
२६०