SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ एकजीवहिंसने इतरजीवहिंसा [श्रु०१। अ०२। उ०६। सू०९६] सिया तत्थेत्यादि । स्यात् कदाचित् तत्र पापारम्भे एकतरं पृथिवीकायादिसमारम्भं विपरामृशति-पृथिवीकायादिसमारम्भं करोति, एकतरं वा आश्रवद्वारं परामृशति-आरभते; स षट्सु अन्यतरस्मिन् कल्पते, यस्मिन्नेव आलोच्यते तस्मिन्नेव प्रवृत्तो दृष्टव्यः । इदमुक्तं भवति-पृथिवीकायादिषु षट्सु जीवनिकायेषु आश्रवद्वारेषु वा मध्ये अन्यतरस्मिन्नपि वर्तमानो यस्मिन्नेव पर्यालोच्यते तस्मिन्नेव कल्पते, सर्वस्मिन्नेव वर्तत इति भावार्थः । कथं पुनः अन्यतरस्मिन् पृथिवीकायादिसमारम्भे वर्तमानः अपरकायसमारम्भे सर्वपापसमारम्भे वा वर्तते इत्येवं मन्यते ?, कुम्भकारशालोदकप्लावनदृष्टान्तेने एककायसमारम्भकः अपरकायसमारम्भको भवति । अथवा प्राणातिपाताश्रवद्वारविघटनाद् एकजीवातिपाताद् एककायातिपाताद् वा अपरजीवातिपाती दृष्टव्यः, प्रतिज्ञालोपात् चानृतः, न च तेन व्यापाद्यमानेन असुमता आत्मा व्यापादकाय दत्तः तीर्थकरेण वा अनुज्ञातः, अतः प्राणिनः प्राणान् गृह्णन्नदत्तग्राही, सावद्योपादानात् च पारिग्रहिकः, परिग्रहाच्च मैथुनरात्रीभोजने अपि गृहीते, यतो न अपरिगृहीतं उपभुज्यते परिभुज्यते वेति; अतो अन्यतरारम्भे षण्णामपि आरम्भः । अथवा अनावृतचतुराश्रवद्वारस्य कथं चतुर्थषष्ठव्रतावस्थानं स्यात् ?, अतः षट्सु अन्यतरस्मिन् प्रवृत्तः सर्वेष्वपि प्रवृत्त इति । अथवा एकतरमपि पापसमारम्भं य आरभते स षट्सु अन्यतरस्मिन् कल्पते योग्यो भवति, अकर्तव्यप्रवृत्तत्वात् । अथवा एकतरमपि यः पापारम्भं करोति असौ अष्टप्रकारं कर्म आदाय षट्सु अन्यतरस्मिन् कल्पते प्रभवति, पौन:पुण्येन उत्पद्यत इत्यर्थः । स्यात्–किमर्थं एवंविधं पापकं कर्म समारभते ? तदुच्यते सुहट्ठी लालप्पमीणे । सुखेनार्थः सुखार्थः, स विद्यते यस्य असौ इति मत्वर्थीयः । स एवम्भूतः सन् अत्यर्थं लपति पुनः पुनः वा लपति लालप्यते वाचा, कायेन धावनवल्गनादिकाः क्रियाः करोति, मनसा च तत्साधनोपायांश्चिन्तयति । तथा हि-सुखार्थी सन् कृष्यादिकर्मभिः पृथिवीं समारभते, स्नानाद्यर्थमुदकम्, वितापनार्थमग्निम्, घर्मापनोदार्थं वायुम्, आहारार्थी वनस्पति त्रसकायं वा इति, असंयतः संयतो वा रससुखार्थी सचित्तं लवण-वनस्पति-फलादि गृह्णाति; एवमन्यदपि यथासम्भवमायोज्यम् । स चैवं लालप्यमानः किम्भूतो भवति ? इत्याह टि० १. ०कायादिसमारम्भं करोति । एक० क । कायादि विपरामृशति ख । ०कायादिसंरम्भं विपरामृशति ग विना ।। २. ०ते सर्वस्मिन्नेव कल्प्यते ङ॥ ३. ०नैव अप्कायसमा० ख ॥ ४. समारम्भे भवति ङ ।। ५. वा नानुज्ञातः ग । चाननुज्ञातः च ।। ६. चेति च ।। ७. सुहत्थी ख ॥ ८. चेत्यसंयतः ख ङ च ।। वि०टि० ० स हि साधुः कुम्भकारशालादौ वसतौ प्रत्युपेक्षणां कुर्वन्नुपयुक्तः तोयघटादि प्रलोठयेत्, सच तोयभृतो घटो मृत्तिका-ऽग्नि-बीज-कुन्थ्वादीनामुपरि प्रलुठितस्ततश्चैतान् व्यापादयेत्, यत्राग्निस्तत्र वायुरप्यवश्यंभावी ओघनिवृ०२७५ ॥ २५९
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy