________________
॥ षष्ठ उद्देशकः ॥ उक्तः पञ्चमोद्देशकः । साम्प्रतं षष्ठ आरभ्यते । अस्य च अयमभिसम्बन्धःसंयमदेहयात्रार्थं लोकं अनुसरता साधुना लोके ममत्वं न कर्तव्यं इति उद्देशार्थाधिकार: अभिहितः; सोऽधुना प्रतिपाद्यते । अस्य च अनन्तरसूत्रसम्बन्धो वाच्यः न एवं अनगारस्य जायते[सू०९५] इति अभिहितं, एतदेव अत्रापि प्रतिपिपादयिषुराह[सू०] से तं संबुज्झमाणे आयाणीयं समुट्ठाए तम्हा पावं कम्मं णेव कुज्जा ण कारवे ॥१५॥
से तं संबुज्झमाणे इत्यादि । यस्य अनगारस्य एतत् पूर्वोक्तं न जायते सः अनगारः तत् प्राण्युपघातकारि चिकित्सोपदेशदानमनुष्ठानं वा सम्बुध्यमानः अवगच्छन् ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया चे परिहरन् आदातव्यम् =आदानीयम्, तच्च परमार्थतो भावाऽऽदानीयं ज्ञान-दर्शन-चारित्ररूपं, तद् उत्थाय इति अनेकार्थत्वाद् आदाय गृहीत्वा; अथवा सः अनगार एव तत् आदानीयं ज्ञानाद्यपवर्गकारणं इत्येवं सम्यग् अवबुध्यमान: सम्यक् संयमानुष्ठानेन उत्थाय सर्वं सावद्यं कर्म न मया कर्तव्यं इत्येवं प्रतिज्ञामन्दरमारुह्य; क्त्वाप्रत्ययस्य पूर्वकालाभिधायित्वात् किं कुर्यात् ? इत्याह
___ तम्हा इत्यादि । यस्मात् संयमः सर्वसावद्यारम्भनिवृत्तिरूपः तस्मात् तं आदाय पापं पापहेतुत्वात् कर्म क्रियां न कुर्यात् स्वतः, मनसाऽपि न समनुजानीयाद् इति अवधारणफलम् । अपरेणापि न कारयेद् इत्याह
___ न कारवे इत्यादि । अपरेणापि कर्मकरादिना पापसमारम्भं न कारयेत् । एतदुक्तं भवति-प्राणातिपात-मृषावादा-ऽदत्तादान-मैथुन-परिग्रह-क्रोध-मान-माया-लोभ-राग-द्वेषकलहा-ऽभ्याख्यान-पैशून्य-परपरिवादा-ऽरतिरति-मायामृषावाद-मिथ्यादर्शनशल्यरूपं अष्टादशप्रकारं पापं कर्म स्वतो न कुर्यात्, नापि अपरेण कारयेत्, ऐवकाराच्च अपरं कुर्वन्तं न समनुजानीयात् योगत्रिके णापि (इति) भावार्थः ।।९५।। स्यादेतत्-किमेकं प्राणातिपातादिकं पापं कुर्वतः अपरमपि ढौकते आहोस्विन्न ? इत्याह[ सू०] सिया तत्थ एकयरं विप्परामुसति छसु अण्णयरम्म कप्पति सुहट्ठी लालप्पमाणे सएण दुक्खेण मूढे विप्परियासमुवेति ।
टि० १. तं ख ग ॥ २. वा ग ॥ ३. ज्ञानाद्यपवर्गककारणम् घ ङ ।। ४. ०परिग्रहरात्रिभोजन-क्रोध० क ग ।। ५. एवकाराद्वापरं क ।।
२५८