________________
[श्रु०१ । अ०२ । उ०५ । सू०९४]
बालसङ्गेनालम् तस्मात् तद् जानीत यदहं ब्रवीमि मैदुपदेशं कामपरित्यागविषयं कर्णीकुरुत इति भावार्थः । ननु च कामनिग्रहोऽत्र चिकीर्षितः; स च अन्योपदेशादपि सिद्ध्यत्येव इत्येतद् आशङ्क्य आह
तेइच्छं इत्यादि । कामचिकित्सां पण्डितः - पण्डिताभिमानी प्रवदन् अपरव्याधिचिकित्सामिव उपदिशन्नपरः तीर्थिको जीवोपमर्दे वेर्तत इत्याह
से हंता इत्यादि । स इति अविदिततत्त्वः कामचिकित्सोपदेशकः प्राणिनां हन्ता दण्डादिभिः, छेत्ता कर्णादीनां भेत्ता शूलादिभिः, लुम्पयिता ग्रन्थिच्छेदनादिना, विलुम्पयिता अवस्कन्दादिना, अपद्रावयिता प्राणव्यपरोपणादिना; नान्यथा कामचिकित्सा व्याधिचिकित्सा वा अपरमार्थदृशां सम्पद्यते । किञ्च -
अकृतं = यदपरेण न कृतं कामचिकित्सनं व्याधिचिकित्सनं वा तदहं करिष्ये इति एवं मन्यमानो हननादिकाः क्रियाः करोति; ताभिश्च कर्मबन्धः; अतो य एवम्भूतं उपदिशति यस्यापि उपदिश्यते उभयोरपि एतयोः अपथ्यत्वाद् अकार्यमिति । आह च—–
जस्स वि यै णं इत्यादि । यस्यापि असौ एवम्भूतां चिकित्सां करोति, न केवलं स्वस्य इति अपिशब्दार्थः; तयोः द्वयोरपि कर्तुः कारयितुश्च हननादिकाः क्रियाः । अतो अलं =पर्याप्तं बालस्य=अज्ञस्य सङ्गेन कर्मबन्धहेतुना कर्तुरिति । यो वा एतत् कारयति बालः= अज्ञः तस्यापि अलमिति सण्टङ्कः । एतच्च एवम्भूतं उपदेशदानं विधानं वा अवगततत्त्वस्य न भवति इत्याह-ण एवं इत्यादि । एवम्भूतं प्राण्युपमर्दनं चिकित्सोपदेशदानं करणं वा अनगारस्य= साधोः ज्ञातसंसारस्वभावस्य न जायते = न कल्पते । ये तु कामचिकित्सां व्याधिचिकित्सां वा जीवोपमर्देन प्रतिपादयन्ति ते बालाः, अविज्ञाततत्त्वत्वात्ः; तेषां वचनं अवधीरणीयमेव इति भावार्थ:, इति : पॅरिसमाप्त्यर्थे, ब्रवीमि इति पूर्ववदिति ॥९४॥
॥ लोकविजयस्य पञ्चमोद्देशकटीका समाप्तेति ॥ छ ॥
टि० १. तदुपदेशं ख-चपुस्तके विना ॥ २. वर्तेत ख ॥ ३. य इति कप्रतौ नास्ति ॥ ४. अज्ञानस्य ख च विना ॥ ५. योऽप्यैतत् ख च ॥ ६. अविज्ञाततत्त्वाः; तेषां क ऋते ।। ७. परिसमाप्त्यर्थः
ङ ॥
वि०टि० ० " अवस्कन्दादिना धाटीप्रभृतिना" स०वि०प० ॥
२५७