________________
[श्रु०१। अ०२। उ०५। सू०९४] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् निचयेन समन्वितः प्रविष्टः । तद्रूप-यौवन-गुणगण-द्रव्यसम्पदाक्षिप्तया मगधसेनया असौ अभिसरितः । तेन च आय-व्ययाक्षिप्तमानसेन असौ न अवलोकिताऽपि। अस्याश्च आत्मीयरूप-यौवन-सौभाग्यावलेपाद् महती दुःखासिका अभूत् । ततश्च तां परिम्लानवदनां अवलोक्य जरासन्धेन अभ्यधायि–'किं भवत्या दुःखासिकाकारणम् ?, केन वा साधू उषिता' इति । सा त्ववादीत्-'अमरेणे'ति । 'कथं असौ अमर: ?' इत्युक्ते तया सद्भाव: कथितो निरूपितश्च यावत् तथैव अद्यापि आस्त इति; अतो भोगाथिनोऽर्थे प्रेसक्ता अजरामरवत् क्रियासु प्रवर्तन्त इति ।
यश्च अमरायमाणः कामभोगाभिलाषुकः स किम्भूतो भवति ? इत्याह
अट्ट० इत्यादि । अतिः= शारीर-मानसी पीडा, तत्र भव: आर्त्तः, तं आतं अमरायमाणं कामार्थं महाश्रद्धावन्तं प्रेक्ष्य = दृष्ट्वा पर्यालोच्य वा कामा-ऽर्थयोः न मनो विधेयमिति । पुनरपि अमरायमाण-भोगश्रद्धावतः स्वरूपमुच्यते
अपरिणाए इत्यादि । कामस्वरूपं तद्विपाकं वा अपरिज्ञाय तेत्र दत्तावधानः कामस्वरूपापरिज्ञया वा क्रन्दते भोगेषु अप्राप्त-नष्टेषु काङ्क्षा-शोकौ अनुभवतीति । उक्तं च
"चिन्ता गते भवति साध्वसमन्तिकस्थे, मुक्ते तु तप्तिरधिका रमितेऽप्यतृप्तिः । द्वेषोऽन्यभाजि वशवर्तिनि दग्धमानः,
प्राप्तिः सुखस्य दयिते न कथञ्चिदस्ति ॥"[ ] इत्यादि ॥९३।। तदेवं अनेकधा कामविपाकं उपदर्श्य उपसंहरति[सू०] से तं जाणह जमहं बेमि । तेइच्छं पंडिए पवयमाणे से हंता छेत्ता भेत्ता लुंपित्ता विलुंपित्ता उद्दवइत्ता 'अकडं करिस्सामि' त्ति मण्णमाणे, जस्स वि य णं करेइ ।
अलं बालस्स संगेणं, जे वा से कारेति बाले । - ण एवं अणगारस्स जायति त्ति बेमि ॥१४॥
॥ लोगविजयस्स पंचमो उद्देसओ सम्मत्तो ॥ से यमित्यादि । से ति तदर्थे, तदपि हेत्वर्थे, यस्मात् कामा दुःखैकहेतवः
टि० १. प्रसक्त्या क ॥ २. तत्तद्दत्तावधानः ख ॥ ३. काममुपदो० ख ॥
२५६