________________
भोगश्रद्धानाममर इवाचरणम् [श्रु०१। अ०२। उ०५। सू०९३] मायी लोभीति दृष्टव्यमिति । अपि च-'कडेण मूढे' करणं कृतं, तेन मूढः= किङ्कर्तव्यताकुलः सुखार्थी दु:खं अश्नुते इति । उक्तं हि
"सोउं सोवणकाले मज्जणकाले य मज्जिउं लोलो ।
जेमेउं च वराओ जेमणकाले न चाएइ ॥" [ ] अत्र मम्मणवणिग्दृष्टान्तो वाच्यः । स एव कासङ्कषो बहुमायी कृतेन मूढः तत् तत् करोति येन आत्मनो वैरानुषङ्गो जायत इत्याह
पुणो तं करे० इत्यादि । मायावी परवञ्चनबुद्ध्या पुनरपि तत् लोभानुष्ठानं तथा करोति येन आत्मनो वैरं वर्धते । अथवा तं लोभं करोति अर्जयति येन जन्मशतेष्वपि वैरं वर्धते इति । उक्तं च
"दुःखार्तः सेवते कामान् सेवितास्ते च दुःखदाः ।
यदि ते न प्रियं दुःखं प्रसङ्गस्तेषु न क्षमः ॥" [ किं पुनः कारणं असुमान् तत् करोति येन आत्मनो वैरं वर्धते ? इत्याह
जमिणं परिकहिज्जइ इमस्स चेव पडिबूहणताए । अमरायइ महासड्डी ।
अट्टमेतं तु पेहाए अपरिणाए कंदति ॥१३॥ जमिणमित्यादि । यद् इति यस्मात् अस्यैव विशरारोः शरीरस्य परिबंहणार्थं प्राणघातादिकाः क्रियाः करोतीति, ते च तेन उपहताः प्राणिनः पुनः शतशो घ्नन्ति । अतो मया इदं कथ्यते-कासङ्कषः खल्वयं पुरुषो बहुमायी कृतेन मूढः पुनस्तत् करोति येन आत्मनो वैरं वर्द्धयतीति । यदि वा यद् इदं मया उपदेशप्रायं पौनःपुण्येन कथ्यते तद् अस्यैव संयमस्य परिबृंहणार्थम् । इदं च अपरं कथ्यते
अमरायइ इत्यादि । अमरायते अनमरः सन् द्रव्य-यौवन-प्रभुत्वरूपावसक्तः अमर इव आचरति अमरायते । कोऽसौ ?-महाश्रद्धी महती चासौ श्रद्धा च= महाश्रद्धा, सा विद्यते भोगेषु तदुपायेषु वा यस्य स तथा; अत्रोदाहरणम्
राजगृहे नगरे मगधसेना गणिका । तत्र कदाचिद् धनः सार्थवाहो महता द्रव्य
टि० १. मज्जियं ग ॥ २. ०काले य न( नो) चाए ग ॥ ३. स चैवं ख ऋते ॥ ४. पुणो पुणो तं ख ।। ५. वर्धयति ख । वर्धयते ग ॥ ६. धननिचयेन च ।।
वि०टि० उदाहरणमिदमत्रस्थाने केचिदेव भणन्ति, न तु चूर्णिकृत्पूर्ववर्तिनः सर्वे आचार्याः, तथा 'तत्थ उदाहरणं केई भणंति" ||
२५५