________________
[श्रु०१। अ०२। उ०५। सू०९३] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
मा तेसु तिरिच्छ० इत्यादि । संसारश्रोतांसि अज्ञाना-ऽविरति-मिथ्यादर्शनादीनि प्रतिकूलेन वा तिरश्चीनेन वा अतिक्रमणीयानि; निर्वाणश्रोतांसि तु ज्ञानादीनि; तत्र आनुकूल्यं विधेयम्, मा तेषु आत्मानं तिरश्चीनमापादयः ज्ञानादिकार्ये प्रतिकूलतां मा विदध्याः; तत्र अप्रमादवता भाव्यम् ॥९२॥
प्रमादवांश्च इहैव शान्ति न लभते, यत आह[सू०] कासंकसे खलु अयं पुरिसे, बहुमायी, कडेण मूढे, पुणो तं करेति लोभं, वेरं वदेति अप्पणो ।
कासंकसे इत्यादि । यो हि ज्ञानादिश्रोतसि तिरश्चीनवर्ती भोगाभिलाषवान् स एवम्भूतः अयं पुरुषः सर्वदा किङ्कर्तव्यताकुल: 'इदं अहं अकार्षम्; इदं च करिष्ये' इत्येवं भोगाभिलाषक्रियाव्यापृतान्तःकरणो न स्वास्थ्यं अनुभवति, खलुशब्दः अवधारणे, वर्तमानकालस्य अतिसूक्ष्मत्वाद् असंव्यवहारित्वम्, अतीता-ऽनागतयोश्च 'इदं अहं अकार्षम्; इदं च करिष्ये' इत्येवं आतुरस्य नास्त्येव स्वास्थ्यमिति । उक्तं च
"इदं तावत् करोम्यद्य, श्वः कर्ताऽस्मीति चापरम् ।
चिन्तयन्निह कार्याणि, प्रेत्यार्थं नावबुध्यते ॥" [ ] अत्र दधिघटिकाद्रमकदृष्टान्तो वाच्यः; स च अयम्
द्रमकः कश्चित् क्वचिद् महिषीरक्षणावाप्तदुग्धः तद् दधीकृत्य चिन्तयामास- मम अतो घृत-वेतनादि यावद् भार्या-ऽपत्योत्पत्तिः; ततश्चिन्ता, कलहे पाष्णिप्रहारेणैव दधिघटिकाव्यापत्तिः । एवं वा चिन्तामनोरथव्याकुलीकृतान्त:करणेन दध्यानयने शिरोविण्टलिकाचीवरे आदीयमाने इव शिरो विधूय आस्फोटिता दधिघटिका इति । एवं यथा तेन न तद्दधि भक्षितं नापि कस्मैचित् पुण्याय दत्तम्; एवमन्योऽपि कासंकसः= किङ्कर्तव्यतामूढो निष्फलारम्भो भवतीति ।
__ अथवा कस्यते अस्मिन्निति कासः संसार:,तं कषतीति तदभिमुखो यातीति कासङ्कषः, यो ज्ञानादिप्रमादवान् वक्ष्यमाणो वेति आह–'बहुमायी' कासङ्कषो हि कषायैः भवति, तन्मध्यभूताया मायाया ग्रहणे अन्येषामपि ग्रहणं दृष्टव्यमिति । ततः क्रोधी मानी
टि० १. मा या तिरिच्छ क । मा तिरिच्छ ख ग ॥ २. वा इति घ-ङप्रत्योरेव ।। ३. ०मापादयेत् ग घ ङ ।। ४. कासंकासे ख ग ॥ ५. चिन्तयन्निति ख च ॥ ६. ०करण इति पाठान्तरम्, दध्यानयने शिरो विधूय स्फोटिता ग ॥ ७. इव इति खप्रतौ न ॥ ८. काषङ्कषः घ ङ ।।
२५४