________________
वान्ताशननिषेधः [श्रु०१। अ०२। उ०५। सू०९२] ऽसृक्-पूत्यादिपूर्णत्वेन असारत्वं इत्येवं बहिरपि असारता दृष्टव्या, अमेध्यपूर्णघटवदिति । उक्तं च
"यदि नामास्य कायस्य, यदन्तस्तद्वहिर्भवेत् ।
दण्डमादाय लोकोऽयं शुनः काकांश्च वारयेत् ॥" [ ] इति । यथा वा बहिः असारता तथा अन्तोऽपीति । किञ्च
अंतो अंतो इत्यादि । देहस्य मध्ये मध्ये पूत्यन्तराणि पूतिविशेषान् देहान्तराणि= देहस्य अवस्थाविशेषान् ‘इह मांसं, इह रुधिरं, इह मेदो, मेज्जा चेति एवमादि पूतिदेहान्तराणि पश्यति, यथावस्थितानि परिच्छिनत्ति इत्युक्तं भवति । यदि वा देहान्तराणि एवम्भूतानि पश्यति
पुढो इत्यादि । पृथगपि-प्रत्येकमपि, अपिशब्दात् कुष्ठाद्यवस्थायां यौगपद्येनापि, श्रवन्ति नवभिः श्रोतोभिः कर्णा-ऽक्षिमल-श्लेष्म-लाला-प्रश्रवणोच्चारादीन् तथा अपरव्याधिविशेषापादितव्रणमुखपूति-शोणित-रसिकादीनि चेति । यदि एतानि ततः किम् ?
पंडिते पडिलेहाए । एतानि एवम्भूतानि गलच्छ्रोतोव्रणरोमकूपानि पण्डितः= अवगततत्त्वः प्रत्युपेक्षेत यथावस्थितं अस्य स्वरूपं अवगच्छेदिति । उक्तं च
"मंस-ऽट्ठि-रुहिर-बहारूवणद्ध-कलमलय-मेय-मज्जासु । पुण्णम्मि चम्मकोसे दुग्गंधे असुइबीभच्छे ॥" [ ] "संचारिमजंतगलंतवच्चमुत्तंतसेयपुण्णम्मि ।
देहे होज्जा किं रागकारणं असुइहेउम्मि ॥" [ ] इत्यादि । तदेवं पूति-देहान्तराणि पश्यन् पृथगपि श्रवन्ति इत्येवं प्रत्युपेक्ष्य किं कुर्यात् ? इत्याह
से मइमं इत्यादि । स पूर्वोक्तो यतिः मतिमान् श्रुतसंस्कृतबुद्धिः यथावस्थितं देहस्वरूपं कामस्वरूपं च द्विविधयाऽपि परिज्ञया परिज्ञाय किं कुर्यात् ? इत्याह
मा य हु इत्यादि । मा प्रतिषेधे, च: समुच्चये, हुः वाक्यालङ्कारे, ललतीति लाला अत्रुट्यन्मुखश्लेष्मसन्ततिः, तां प्रत्यशितुं शीलं अस्य इति प्रत्याशी । वाक्यार्थस्तु –यथा हि बालो निर्गतामपि लालां सदसद्विवेकाभावात् पुनरपि अश्नाति इत्येवं त्वमपि लालावत् 'त्यक्त्वा भोगान् मा प्रत्याशी:, वान्तस्य पुनरपि अभिलाषं मा कुरु इत्यर्थः । किञ्च
टि० १. मज्जा वेत्यादि ग घ ङ । २. संसारिम० ङ॥ ३. पश्य पृथगपि ख ।। ४. त्यक्त्वा मा भोगान् प्रत्याशी: ख ऋते ॥ ५. प्रत्यश्नीहि क-खआदर्शा ऋते । खप्रतौ तु प्रत्यशान इति लिखितपाठं निष्काश्य प्रत्याशीः इति विशोधितम् । प्रत्यश्नीहि इत्येतत्पाठस्योपरि "प्रत्यशान" इति चप्रतौ टिप्पणी ।।
२५३