________________
[श्रु०१ । अ०२ । उ०५ । सू०९२]
वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
वाच्यम् । यदि वा लोकविदर्शी इति कामार्थं अर्थोपार्जनप्रसक्तं गृद्धं अध्युपपन्नं लोकं पश्यतीति । एतदेव दर्शयितुमाह
गढिए इत्यादि । अयं हि लोको गृद्धः - अध्युपपन्नः कामानुषङ्गे तदुपाये वा तत्रैव अनुपरिवर्तमानो=भूयो भूयः तदेव आचरंस्तज्जनितेन वा कर्मणा संसारचक्रे अनुपरिवर्तमानः=पर्यटन् आयतचक्षुषो गोचरीभवन् कामाभिलाषनिवर्तनाये प्रभवति । यदि वा कामगृद्धान् संसारे अनुपरिवर्तमानान् असुमतः पश्य इत्येवं उपदेशः । अपि च
संधिं इत्यादि । इह मर्त्येषु = मनुजेषु यो ज्ञानादिको भावसन्धिः स च मर्त्येष्वेव सम्पूर्णो भवतीति मर्त्यग्रहणम्; अतस्तं विदित्वा यो विषय- कषायादीन् परित्यजति स एव वीर इति दर्शयति
ऐँस इत्यादि । एषः अनन्तरोक्तः आयतचक्षुः यथावस्थितलोकविभागस्वभावदर्शी भावसन्धेः वेत्ता परित्यक्तविषयतर्षो वीरः कर्मविदारणात् प्रशंसितः =स्तुतः विदिततत्त्वैर । स एवम्भूतः किमपरं करोति ? इति चेद्, इत्याह
जे बद्धे इत्यादि । यो बद्धान् द्रव्य भावबन्धनेन स्वतो विमुक्तो अपरानपि मोचयतीति ॥ ९१ ॥ एतदेव द्रव्य - भावबन्धनविमोक्षं वाचोयुक्त्या आचष्टे[सू०] जहा अंतो तहा बाहिं, जहा बाहिं तहा अंतो ।
अंतो अंतो पूति - देहंतराणि पासति पुढो वि सवंताई । पंडिते पडिलेहाए ।
से मतिमं परिणाय मा य हु लालं पच्चासी ।
मा तेसु तिरिच्छमप्पाणमावातए ॥९२॥
जहा अंतो तहा बाहिं इत्यादि । यथा अन्तः भावबन्धनमष्टप्रकारं कर्मनिगडं मोचयति एवं पुत्र-कलत्रादि बाह्यमपि । यथा वा बाह्यं बन्धुबन्धनं मोचयति एवं मोक्षगमनविघ्नकारणं आन्तरमपीति । यदि वा कथमसौ मोचयति ? इति चेत्, तत्त्वाविर्भावनेन । स्यादेतत्-तदेव किम्भूतम् ? इत्याह
जहा अंतो इत्यादि । यथा स्वकायस्य अन्तः मध्ये अमेध्य-कलल- पिशिता
टि० १. संसारचक्रवाले अनु० ख ॥ २. ०य न प्रभवति ? यदि ग ॥। ३. एस एव इत्यादि क ।। ४. ०त्यक्तभोगतर्षो ख ॥। ५. बाह्यं बन्धनं क ॥
२५२