________________
आयतचक्षूणां लोकदर्शनम्
[श्रु०१ । अ०२ । उ०५ । सू०९१]
पुनर्वयःपरिणामेन मृत्युकालोपस्थानेन वा मोहापगमे सति 'किं मया मन्दभाग्येन पूर्वं अशेषशिष्टाचीर्णः सुगतिर्गमनैकहेतुः दुर्गतिद्वारपरिघो धर्मो नाचीर्णः ?' इत्येवं शोचत इति । उक्तं च
“भेवित्रीं भूतानां परिणतिमनालोच्य नियतां, पुरा यद् यत् किञ्चिद्विहितमशुभं यौवनमदात् । पुनः प्रत्यासन्ने महति परलोकैकगमने, तदेवैकं पुंसां व्यथयति जराजीर्णवपुषाम् ॥” [ तथा जूरतीत्यादीन्यपि स्वबुद्ध्या योजनीयानि । उक्तं च"सगुणमपगुणं वा कुर्वता कार्यजातं, परिणतिरवधार्या यत्नतः पण्डितेन । अतिरभसकृतानां कर्मणामाविपत्तेर्भवति, हृदयदाही शल्यतुल्यो विपाकः ॥ [
] इत्यादि ॥९०॥
कः पुनरेवं न शोचते ? इत्याह
[सू० ] आयतचक्खू लोगविपस्सी लोगस्स अहेभागं जाणति, उड्डूं भागं जाणति, तिरियं भागं जाणति, गढिए अणुपरिमाणे ।
संधिं विदित्ता इह मच्चिएहिं,
एस वीरे पसंसिते जे बद्धे पडिमोय ॥ ९१ ॥
आयतचक्खू । आयतं=दीर्घं ऐहिका - ऽऽमुष्मिकापायदर्शि चक्षुः=ज्ञानं यस्य स= आयतचक्षुः । कः पुँनरिति एवम्भूतो भवति ? यः कामान् एकान्तेनैं अनर्थभूयिष्ठान् परित्यज्य शमसुखं अनुभवति । किञ्च - 'लोगविपस्सी', लोकं विषयानुषङ्गावेशाप्तदुःखातिशयं तथा त्यक्तकामावाप्तप्रशमसुखं विविधं द्रष्टुं शीलं अस्य इति लोकविदर्शी । अथवा लोकस्य ऊर्ध्वा -ऽध-स्तिर्यग्भागगतिकारणायुष्क - सुख-दुःखविशेषान् पश्यतीति । एतद् दर्शयति—
लोगस्स इत्यादि । लोकस्य = धर्मा-धर्मास्तिकायावच्छिन्नाकाशखण्डस्य अधोभागं जानातीति स्वरूपतः अवगच्छति । इदमुक्तं भवति - येन कर्मणा तत्र उत्पद्यन्ते असुमन्तः यादृक् च तत्र सुख-दुःखविपाको भवति तं जानाति । एवं ऊर्ध्व-तिर्यग्भागयोरपि
टि० १. ० गमनहेतुर्दुर्गतिमार्गे (र्ग ? ) परिघो ख ॥। २. भवित्रीं भावानां घ ङ च ॥ ३. पुनश्चैवम्भूतो ख । पुनरेवम्भूतो ङ ॥ ४ ० नार्थभूयिष्ठान् ख ॥
२५१