SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ [श्रु०१। अ०२। उ०६। सू०१०५] यत् तद् भगवदनाचीर्णं परिहार्यं तद् नामग्राहमाह छणं छणं इत्यादि । "क्षणु हिंसायाम्" [पा०धा०१४६६] क्षण-क्षण: हिंसनम्, कारणे कार्योपचाराद् येन येन प्रकारेण हिंसा उत्पद्यते तत् तद् ज्ञेपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेत् । यदि वा क्षण: अवसरः कर्तव्यकालः, तं तं ज्ञपरिज्ञया ज्ञात्वा आसेवनापरिज्ञया च आचरेदिति । किञ्च-लोयसण्णं इत्यादि । लोकस्य गृहस्थलोकस्य सञ्ज्ञानं-सञ्ज्ञा विषयाभिष्वङ्गजनितसुखेच्छा परिग्रहसञ्ज्ञा वा, तां च ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया च परिहरेत् । कथम् ? सर्वशः सर्वैः प्रकारैः योगत्रिक-करणत्रिकेण इत्यर्थः ॥१०४॥ तस्य एवंविधस्य यथोक्तगुणावस्थितस्य धर्मकथाविधिज्ञस्य बद्धप्रतिमोचकस्य केर्मोद्घातनखेदज्ञस्य बन्ध-मोक्षान्वेषिणः सत्पथव्यवस्थितस्य कुमार्ग निराचिकीर्षोः हिंसाद्यष्टादशपापस्थानविरतस्य अवगतलोकसञ्जस्य यद् भवति तद् दर्शयति[सू०] उद्देसो पासगस्स णत्थि । बाले पुण णिहे कामसमणुण्णे असमितदुक्खे दुक्खी दुक्खाणमेव आवट्ठ अणुपरियट्टति त्ति बेमि ॥१०५॥ ॥ बीयमज्झयणं लोगविजयो सम्मत्तं ॥ उद्देसो इत्यादि । उद्दिश्यते नारकादिव्यपदेशेन इति उद्देशः, स पश्यकस्य= परमार्थदृशो न विद्यते इत्यादीनि च सूत्राणि उद्देशकपरिसमाप्ति यावत् तृतीयोद्देशके व्याख्यातानि; तत एव अर्थोऽवगन्तव्यः आक्षेप-परिहारौ चेति । तानि च अमूनि-बाल: पुनः निह: कामसमनुज्ञः अशमितदुःख: दुःखी दुःखानामेव आवर्तमनुपरिवर्तते, इतिः परिसमाप्तौ, ब्रवीमि इति पूर्ववत् ॥१०५॥ उक्तः षष्ठोद्देशकः । तत्परिसमाप्तौ च उक्तः सूत्रानुगमः सूत्रालापकनिष्पन्ननिक्षेपश्च ससूत्रस्पर्शनियुक्तिकः । साम्प्रतं नैगमादयो नयाः । ते च अन्यत्र न्यक्षेण प्रतिपादिता इति इह तु न प्रतन्यन्तेः सक्षेपतस्तु ज्ञान-क्रियानयद्वयान्तर्गतत्वात् तेषां तावेव प्रतिपाद्यते । तयोरपि आत्मीयपक्षसावधारणतया मोक्षाङ्गत्वाभावात् प्रत्येकं मिथ्यादृष्टित्वम्, अतः पङ्ग्वन्धवत् परस्परसापेक्षतया इष्टकार्यावाप्तिः अवगन्तव्या इति उपरम्यते। ॥ इति लोकविजयाध्ययनटीका समाप्ता ॥ छ । ॥ ग्रन्थाग्रम्-२५०० ॥ टि० १. ज्ञपरिजया ज्ञात्वा प्रत्या० ख ग च ॥ २. कर्मोदघाटन० ख च ॥ ३. कुमार्गं तित्यक्षोहिंसा० ख ॥ ४. ०ते ॥ छ । समाप्ता लोकविजयाध्ययनटीकेति ॥ छ ॥ख । ०ते ॥ छ ॥ समाप्ता लोगविजयाध्ययनस्य टीकेति ॥ छ ॥ ग्रन्थाग्रम्-२५०० । च ॥ ५. इति परिसमाप्ता लोकविजयटीका ॥ छ । ङ॥ २७१
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy