________________
कामानां दुरतिक्रमत्वम् [श्रु०१। अ०२। उ०५। सू०९०] प्रवेदिते मार्गे प्रयत्नवता भाव्यमिति । आह च
जहेत्थेत्यादि । लब्ध्वा कर्मभूमि मोक्षपादपबीजभूतां च बोधि सर्वसंवरचारित्रं च प्राप्य तथा विधेयं यथा कुशल: विदितवेद्यः अत्र-अस्मिन्नार्यप्रवेदिते मार्गे आत्मानं पापेन कर्मणा नोपलिम्पयेदिति । एवं च उपलिम्पनं भवति यदि यथोक्तानुष्ठान विधायित्वं न भवति; सतां चायं पन्था यदुत यत् स्वयं प्रतिज्ञातं तद् अन्त्योच्छ्वासं यावद् विधेयमिति । उक्तं च
"लज्जां गुणौघजननी जननीमिवार्यामत्यन्तशुद्धहृदयामनुवर्तमानाः । तेजस्विनः सुखमसूनपि सन्त्यजन्ति,
सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ॥" [ ] इतिशब्दः अधिकारसमाप्त्यर्थः, ब्रवीमि इति सोऽहं ब्रवीमि येन मया भगवत्पादारविन्दं उपासता अश्रावीति ॥८९॥ परिग्रहाद् आत्मानं अपसर्पयेद् इत्युक्तम्; तच्च न निदानोच्छेदमन्तरेण, निदानं च शब्दादिपञ्चगुणानुगामिनः कामाः, तेषां च उच्छेदः असुकर: । यतः आह[सू०] कामा दुरतिक्कमा । जीवियं दुप्पडिबूहगं ।
___ कामा इत्यादि । कामा द्विविधाः-इच्छाकामा मदनकामाश्च । तत्र इच्छाकामा मोहनीयभेदहास्य-रत्युद्भवाः; मदनकामा अपि मोहनीयभेदवेदोदयात् प्रादुष्यन्ति । ततश्च द्विरूपाणामपि कामानां मोहनीयं कारणम्; तत्सद्भावे च न कामोच्छेद इत्यतो दुःखेन अतिक्रम:=अतिलङ्घनं विनाशो येषां ते तथा; ततश्च इदमुक्तं भवति-न तत्र प्रमादवता भाव्यम् । न केवलमत्र, जीवितेऽपि न प्रमादवता भाव्यमिति आह
जीवियमित्यादि । जीवितम् आयुष्कं, तत् क्षीणं सत् दुष्प्रतिबंहणीयं दुः - अभावार्थे, नैव वृद्धि नीयते इति यावत् । अथवा जीवितं संयमजीवितम्, तत् दुष्प्रतिबंहणीयं कामानुषक्तजनान्तर्वतिना दुःखेन वृद्धि नीयते, दुःखेन निष्प्रत्यूहः संयमः प्रतिपाल्यत इति । उक्तं च
"आगासे गंगसोय व्व, पडिसोउ व्व दुत्तरो । बाहाहिं चेव गंभीरो, तरिअव्वो महोयही ॥"
टि० १. स्वतः ख ॥ २. दुःखं प्रतिबंहणीयं ग । ३. दुःखेन निष्प्रत्यूहः ग च ।।
२४९