________________
[श्रु०१। अ०२। उ०५। सू०८९] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
"ममाहमिति चैष यावदभिमानदाहज्वर:, कृतान्तमुखमेव तावदिति न प्रशान्त्युन्नयः । यशः-सुखपिपासितैरयमसावनर्थोत्तरैः,
परैरपशदः कुतोऽपि कथमप्यपाकृष्यते ॥" [ ] नैष दोषः, न हि धर्मोपकरणे मम इदमिति एवं साधूनां परिग्रहाग्रहयोगोऽस्ति । तथा हि आगम:
"अवि अप्पणो वि देहम्मि नायरंति ममाइउं ।" [ दशवै० ६।२२] यदिह परिगृहीतं कर्मबन्धाय उपकल्पते स परिग्रहः; यत् तु पुनः कर्मनिर्जरणार्थं प्रभवति तत् परिग्रह एव न भवतीति । आह च
अण्णहा णं इत्यादि । णमिति वाक्यालङ्कारे, अन्यथा इति अन्येन प्रकारेण पश्यकः सन् परिग्रहं परिहरेत् । यथा हि अविदितपरमार्था गृहस्थाः सुखसाधनाय परिग्रहं पश्यन्ति न तथा साधुः । तथा हि अयं अस्य आशयः-आचार्यसत्कं इदं उपकरणं न ममेति, राग-द्वेषमूलत्वात् परिग्रहाग्रहयोगोऽत्र निषेध्यः, न धर्मोपकरणम्, तेन विना संसारार्णवपारागमनादिति । उक्तं च
"साध्यं यथा कथञ्चित् स्वल्पं कार्य, महच्च न तथेति ।
प्लवनमृते न हि शक्यं पारं गन्तुं समुद्रस्य ॥" [ ] अत्र च आर्हताभासैः बोटिकैः सह महान् विवादोऽस्ति इत्यतो विवक्षितमर्थं तीर्थकराभिप्रायेणापि सिसाधयिषुराह
एस मग्गे आरिएहिं पवेदिते, जहेत्थ कुसले णोवलिंपिज्जासि त्ति बेमि ॥८९॥
एस मग्गे इत्यादि । धर्मोपकरणं न परिग्रहाय इति एषः अनन्तरोक्तो मार्ग: आराद् याताः सर्वहेयधर्मेभ्य इति आर्याः तीर्थकृतः, तैः प्रवेदितः कथितः, न तु यथा बोटिकैः कुण्डिका तट्टिका लम्बणिका अश्ववालधिवालादि स्वरुचिविरचितो मार्ग इति, न वा यथा मौद्गलि-स्वातिपुत्राभ्यां शौद्धोदनं ध्वजीकृत्य प्रकाशितः इति; अनया दिशा अन्येऽपि परिहार्या इति । इह तु स्वशास्त्रगौरवं उत्पादयितुं आर्यैः प्रवेदित इत्युक्तम् । अस्मिश्च आर्य
टि० १. ०साधनार्थोत्तरः ख ॥ २. परिग्रहयोगो० ङ ॥ ३. यप्पणो च ॥
वि०टि० @ "तड्डि( ट्टि)का इति तलगटी, लम्बनिका इति परियछि । त्रिगव्यम्[?], अश्ववालधिवालादिः इति काष्ठसिंगी" जै०वि०प० ॥ 'सारिपत्रः' इति बौद्धमते प्रसिद्धिः ।।
२४८