________________
वस्त्रा-ऽऽहारादिग्रहणविधिः [श्रु०१। अ०२। उ०५। सू०८९] ण णिहे । परिग्गहाओ अप्पाणं अवसक्केज्जा । अण्णहा णं पासए परिहरेज्जा ।
लाभो त्ति इत्यादि । “लाभो वस्त्रा-5ऽहारादेः मम संवृत्तः, अहो ! अहं लब्धिमान्' इत्येवं मदं न विदध्यात् । न च तदभावे शोकाभिभूतो विमनस्को भूयाद् इत्याह
अलाभो त्ति इत्यादि । अलाभे सति शोकं न कुर्यात् । कथम् ?- ‘धिग् माम्, मन्दभाग्योऽहं येन सर्वदानोद्यतादपि दातुः न लभेऽहमि'ति । अपि तु तयोः लाभाऽलाभयोः माध्यस्थ्यं भावनीयमिति । उक्तं च
___ "लभ्यते लभ्यते साधुः साधुरेव न लभ्यते ।
अलब्धे तपसो वृद्धिर्लब्धे तु प्राणधारणम् ॥" [ ] इत्यादि । तदेवं पिण्ड-पात्र-वस्त्राणां एषणाः प्रतिपादिताः । साम्प्रतं सन्निधिप्रतिषेधं कुर्वन्नाह
बहु पि इत्यादि । बह्वपि लब्ध्वा न निहे त्ति न स्थापयेत्, न सन्निधिं कुर्यात् । स्तोकं तावद् न सन्निधीयत एव, बह्वपि न सन्निदध्याद् इति अपिशब्दार्थः । न केवलं. आहारसन्निधिं न कुर्यात्, अपरमपि वस्त्र-पात्रादिकं संयमोपकरणातिरिक्तं न बिभृयाद् इत्याह
परीत्यादि । परिगृह्यत इति परिग्रह: धर्मोपकरणातिरिक्त उपकरणं, तस्माद् आत्मानं अपष्वष्केत् अपसर्पयेत् । अथवा संयमोपकरणमपि मूर्च्छया परिग्रहो भवति, "मुँच्छा परिग्गहो वुत्तो"[दशवै०६/२१] इति वचनात्; तत आत्मानं परिग्रहाद् अपसर्पयन्नुपकरणे तुरगवद् मूर्छा न कुर्यात् ।
ननु यः कश्चिद् धर्मोपकरणाद्यपि परिग्रहो न स चित्तकालुष्यमृते भवति । तथा हिआत्मीयोपकारिणि रागः, उपघातकारिणि च द्वेषः; ततः परिग्रहे सति राग-द्वेषौ 'नेदिष्टौं, ताभ्यां च कर्मबन्धः, ततः कथं परिग्रहो धर्मोपकरणम् ? । उक्तं च
टि० १. संवत्त इत्यतोऽहं लब्धि० ख च । संवत्त इत्यतोऽहोऽहं लब्धिमान इत्येवं न मदं विद० ग ॥२. लभेयमिति ख ॥ ३. साध साध चैव न घ ङ॥ ४. अलाभे तपसो वद्धिाभे त ख ॥ सन्धीयत क ॥ ६. सन्निधिं विदध्यादि० क ।। ७. अवशक्यात् ख ॥ ८. "मूर्छा च परिग्रहः" इति व० ख । “मूर्छा परिग्रहः" इति व० ग घ ङ च ॥ ९. निर्दिष्टौ क ख ।। १०. तत् कथं ख च । ततः कथं न परिग्रहो ग ॥
वि०टि० क "नेदिष्टौ निकटौ" जै०वि०प० ।।
२४७