SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ [श्रु०१। अ०२। उ०५। सू०८९] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् वत्थं पडिग्गहं इत्यादि यावत् एएसु चेव जाणिज्जा । एतेषु पुत्राद्यर्थं आरम्भप्रवृत्तेषु सन्निधिसन्निचयकरणोद्यतेषु जानीयात्-शुद्धा-ऽशुद्धतया परिच्छिन्द्यात् । परिच्छेदश्च एवमात्मकः-शुद्धं गृह्णीयादशुद्धं परिहरेदिति यावत् । किं तज्जानीयात् ?-वस्त्रं वस्त्रग्रहणेन वस्त्रैषणा सूचिता; तथा पतद्ग्रहं पात्रम्, एतद्ग्रहणेन च पात्रैषणा सूचिता; कम्बलमित्यनेन आविकः पात्रनिर्योगः कल्पश्च गृह्यते; पादपुञ्छनकमित्यनेन च रजोहरणमिति । एभिश्च सूत्रैः ओघोपधिः औपग्रहिकश्च सूचितः । तथैतेभ्य एव वस्त्रैषणा पात्रैषणा च 'नियूँढा । तथा अवगृह्यत इति अवग्रहः; स च पञ्चधा-देवेन्द्रावग्रह: राजावग्रह: गृहपत्यवग्रहः शय्यातरावग्रह: साधर्मिकावग्रहश्चेति । अनेन चावग्रहप्रतिमाः सर्वाः सूचिताः, अत एवासौ निएंढा, अवग्रहकल्पिकश्च अस्मिन्नेव सूत्रे केल्पते । तथा कटासनं कटग्रहणेन संस्तारो गृह्यते; आसनग्रहणेन च आसन्दकादि विष्टरमिति । आस्यते= स्थीयते अस्मिन्निति आसनं शय्या, ततश्च आसनग्रहणेन शय्या सूचिता; अत एवासौ निर्मूढेति । एतानि च सर्वाण्यपि वस्त्रादीनि आहारादीनि च एतेषु स्वारम्भप्रवृत्तेषु गृहस्थेषु जानीयात्, सर्वाम-गन्धं परिज्ञाय निरामगन्धो यथा भवसि तथा परिव्रजेः इति भावार्थः । एतेषु च स्वारम्भप्रवृत्तेषु गृहस्थेषु परिव्रजन् यावल्लाभं गृह्णीयाद् उत कश्चिद् नियमोऽपि अस्ति ?, अस्ति इत्याह लद्धे आहारे अणगारो मातं जाणेज्जा । से जहेयं भगवता पवेदितं । लद्धे इत्यादि । लब्धे=प्राप्ते सति आहारे, आहारग्रहणं चोपलक्षणार्थम्, अन्यस्मिन्नपि वस्त्रौषधादिके, अनगार: भिक्षुः मात्रां जानीयात्, यावन्मात्रेण गृहीतेन गृहस्थः पुनरारम्भे न प्रवर्तते यावन्मात्रेण च आत्मनो विवक्षितकार्यनिष्पत्तिः भवति तथाभूतां मात्रां अवगच्छेद् इति भावः । एतच्च स्वमनीषिकया न उच्यत इत्यत आह से जहेयं इत्यादि । तद् यथा इदं उद्देशकादेः आरभ्य अनन्तरसूत्रं यावद् भगवता ऐश्वर्यादिगुणसमन्वितेन अर्द्धमागधया भाषया सर्वस्वभाषानुगतया सदेव-मनुजायां परिषदि केवलज्ञानचक्षुषा अवलोक्य प्रवेदितं-प्रतिपादितं सुधर्मस्वामी जम्बूस्वामिने इदमाचष्टे । किञ्च अन्यत् __ लाभो त्ति ण मज्जेज्जा । अलाभो त्ति ण सोएज्जा, बहु पि लद्धं टि० १. नियूंढा च ॥ २. क्रियते ख ग च ॥ ३. भवति तथा परिव्रजेदिति ख ग ॥ वि०टि० * आचा०द्वि० श्रु०स्कन्धस्य पञ्चम-षष्ठाध्ययने ॥ © "[अवग्रहप्रति? ]मा इति अवग्रहविशेषाः" जै०वि०प० । आचा०द्वि० श्रु०स्कन्धस्य सप्तमाध्ययनम् ॥ 2 विस्तरार्थिभिः दृष्टव्याः बु०क०भा०१९९-२०६ गाथाः ॥ आचा०द्वि० श्रु०स्कन्धस्य द्वितीयाध्ययनम ।। २४६
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy