________________
राग-द्वेषपूर्वकप्रतिज्ञा अकरणीया [श्रु०१। अ०२। उ०५। सू०८९] अविदितपरमार्थाः साम्प्रतक्षिणो यत्याभासा मासक्षपणादिका अपि प्रतिज्ञाः कुर्वन्ति ।
अथवा अप्रतिज्ञः अनिदानो वसुदेववत् संयमानुष्ठानं कुर्वन् निदानं न करोतीति । अथवा गोचरादौ प्रविष्टः सन्नाहारादिकं मम एतद् भविष्यति इत्येवं प्रतिज्ञां न करोतीति अप्रतिज्ञः । यदि वा स्याद्वादप्रधानत्वाद् मौनीन्द्रागमस्य एकपक्षावधारणं च प्रतिज्ञा, तद्रहितः अप्रतिज्ञः । तथा हि-मैथुनविषयं विहाय अन्यत्र न क्वचिद् नियमवती प्रतिज्ञा विधेया; यत उक्तम्
"न य किंचि अणुण्णायं पडिसिद्धं वा वि जिणवरिंदेहिं । मोत्तुं मेहुणभावंन तं विणा राग-दोसेहिं ॥"[धर्मसंग्रहणि १०६४] "दोसा जेण निरुब्भंति जेण झिज्जंति पुव्वकम्माई । सो सो मोक्खोवाओ रोगावत्थासु समणं व ॥"
[निशी०भा०५२५०-५३७३, बृ०क०भा०३३३१] "जे जत्तिया ये हेऊ भवस्स ते चेव तत्तिया मोक्खे । गणणातीता लोया दोण्ह वि पुण्णा भवे तुल्ला ॥"
___ [ओघनि०५४, निशी०भा०६४६४] इत्यादि । अयंसंधीति आरभ्य कालेअणुवाइ त्ति यावदेतेभ्यः सूत्रेभ्य एकादशभ्यः पिण्डैषणा कनि!ढा इति ।
एवं तर्हि अप्रतिज्ञ इत्यनेन सूत्रेण इदमापन्नम्-न क्वचित् केनचित् प्रतिज्ञा विधेया, 15. प्रतिपादिताश्च आगमे नानाविधा अभिग्रहविशेषाः; ततश्च पूर्वोत्तरव्याहतिरिव लक्ष्यत इत्यत आह
___ दुहओ छेत्ता णियाति । द्विधा इति रागेण द्वेषेण वा या प्रतिज्ञा तां छित्त्वा निश्चयेन् नियतं वा याति नियाति ज्ञान-दर्शन-चारित्राख्ये मोक्षमार्गे संयमानुष्ठाने वा भिक्षाद्यर्थं वा । एतदुक्तं भवति- राग-द्वेषौ च्छित्त्वा प्रतिज्ञा गुणवती, व्यत्यये व्यत्यय इति ॥८८॥
स एवम्भूतो भिक्षुः कालज्ञो बलज्ञो यावद् द्विधा छिन्दन् किं कुर्यात् ? इत्याह[सू०] वत्थं पडिग्गहं कंबलं पादपुंछणं उग्गहं च कडासणं एतेसु चेव जाणेज्जा।
टि० १. ०ज्ञा तस्मात् तद्रहितो० ख । ०ज्ञा तस्माद्रहितो० ग ॥ २. न विणा तं राग० च ॥ ३. निरुज्झंति ङ। निरज्जंति च ॥ ४. सिज्झंति क ।। ५. उ ख विना ।। ६. काले अणुट्टाइ त्ति ख च ऋते ॥ ७. च्छित्त्वा [णियान्?] कि क ।।
वि०टि० ए आचा०द्वि० श्रु०स्कन्धस्य प्रथमाध्ययनस्यैकादश उद्देशकाः ॥ • "नियूँढा इति द्वितीयस्कन्धे प्रथमाध्ययने उद्देशरूपा(पाः)" जै०वि०प० ॥
२४५